स्वल्पायुषो बहु (लघु) च्छिन्ना दीर्घाछिन्ना महायुषम् 65.
कनिष्ठिकानामिका वा यस्या न स्पृशते महीम् 65.
ऊर्द्ध्वं द्वाभ्यां पिण्डिकाभ्यां जङ्घे चातिशिरालके 65.
वामावर्त्तं निम्नमल्पं दुः खितानां च गुह्यकम् 65.
पृथुलया प्रचण्डाश्च स्त्रियः स्युर्नात्र संशयः 65.
स्मिते कूपे गण्डयोश्च सा ध्रुवं व्यभिचारिणी 65.
उदरे श्वशुरं हन्ति पतिं हन्ति स्फिचोर्द्वयोः 65.
स्तनौ सरोमावशुभौ कर्णौ च विषमौ तथा 65.
चौर्य्याय कृष्णमांसाश्च दीर्घा भुर्त्तुश्च मृत्यवे 65.
शिरालैर्विषमैः शुष्कैर्वित्तहीना भवन्ति हि 65.
स्त्रीषु दोषा विरूपासु पत्राकारो गुणास्ततः 65.
निर्लक्षणा शुभा स्याच्च चक्राङ्कितशिलार्चनात् 66.
त्रिचक्रोऽसावच्युतः स्याच्चतुश्चक्रश्चतुर्भुजः 66.
पुरुषोत्तमश्चाष्टमः स्यान्नवव्यूहो दशात्मकः 66.
अत ऊर्ध्वमनन्तः स्याच्चक्रे रेखादिकैः क्रमात् 66.
शालग्रामशिला यत्र देवो द्वारवतीभवः 66.
शालग्रामो द्वारका च नैमिषं पुष्करं गया 66.
गङ्गा च नर्मदा चैव चन्द्रभागा सरस्वती 66.
सर्वपापहराण्येव भुक्तमुक्तिप्रदानि वै 66.
अङ्गिराः श्रीमुखो भावः युवा धाता तथैव च 66.
चित्रभानुः स्वभानुश्च तारणः पार्थिवो व्ययः 66.
नन्दनो विजयश्चैव जयो मन्मथदुर्मुखौ 66.
शुभकृच्छोभनः क्रोधी विश्वावमुपराभवौ 66.
परिधावी प्रमादी च आनन्दो राक्षसो नलः 66.
दुन्दुभी रुधिरोद्गारी रक्ताक्षः क्रोधनोऽक्षयः 66.
कालं वक्ष्यामि संसिद्ध्यै रुद्र पञ्चस्वरोदयात् 66.
आ ई ऊ ऐ औ स्वरांश्च लिखेत्पञ्चाग्निकोष्ठके 66.
तिथी एकाग्निकोष्ठेषु त्रयो राजाथ सा (मा) जयाः 66.
गुरुशुक्रौ च मन्दश्च रविचन्द्रौ यथोदितम् 66.
पञ्चपञ्चान्यत्र भानि चैत्राद्य उदयस्तथा 66.