नासा समा समपुटा स्त्रीणां तु रुचिरा शुभा 65.
न पृथू बालेन्दुनिभे भ्रुवौ चाथ ललाटकम् 65.
सुमांसलं कर्णयुग्मं समं मृदु समाहितम् 65.
स्त्रीणां समं शिरः श्रेष्ठं पादे पाणितलेऽथ वा 65.
ध्वजचामरमालाभिः शैलकुण्डलवेदिभिः 65.
लक्षणैरङ्कुशाद्यैश्च स्त्रियः स्यू राजवल्लभाः 65.
न निम्नं नोन्नतं स्त्रीणां भवेत्करतलं शुभम् रेखा या मणिबन्धोत्था गता मध्याङ्गुलिं करे ॥ 65.
गता पाणितले या च योर्द्ध्वपादतले स्थिता 65.
कनिष्ठिकामूलभवा रेखा कुर्य्याच्छतायुषम् 65.
ऊना ऊनायुषं कुर्य्याद्रेखाश्चांगुष्ठमूलगाः 65.
स्वल्पायुषो बहु (लघु) च्छिन्ना दीर्घाछिन्ना महायुषम् 65.
कनिष्ठिकानामिका वा यस्या न स्पृशते महीम् 65.
ऊर्द्ध्वं द्वाभ्यां पिण्डिकाभ्यां जङ्घे चातिशिरालके 65.
वामावर्त्तं निम्नमल्पं दुः खितानां च गुह्यकम् 65.
पृथुलया प्रचण्डाश्च स्त्रियः स्युर्नात्र संशयः 65.
स्मिते कूपे गण्डयोश्च सा ध्रुवं व्यभिचारिणी 65.
उदरे श्वशुरं हन्ति पतिं हन्ति स्फिचोर्द्वयोः 65.
स्तनौ सरोमावशुभौ कर्णौ च विषमौ तथा 65.
चौर्य्याय कृष्णमांसाश्च दीर्घा भुर्त्तुश्च मृत्यवे 65.
शिरालैर्विषमैः शुष्कैर्वित्तहीना भवन्ति हि 65.
स्त्रीषु दोषा विरूपासु पत्राकारो गुणास्ततः 65.
निर्लक्षणा शुभा स्याच्च चक्राङ्कितशिलार्चनात् 66.
त्रिचक्रोऽसावच्युतः स्याच्चतुश्चक्रश्चतुर्भुजः 66.
पुरुषोत्तमश्चाष्टमः स्यान्नवव्यूहो दशात्मकः 66.
अत ऊर्ध्वमनन्तः स्याच्चक्रे रेखादिकैः क्रमात् 66.
शालग्रामशिला यत्र देवो द्वारवतीभवः 66.
शालग्रामो द्वारका च नैमिषं पुष्करं गया 66.
गङ्गा च नर्मदा चैव चन्द्रभागा सरस्वती 66.
सर्वपापहराण्येव भुक्तमुक्तिप्रदानि वै 66.
अङ्गिराः श्रीमुखो भावः युवा धाता तथैव च 66.