असृजन्मनसा दक्षः प्रजाः पूर्वं चतुर्विधाः 6.
मैथुनेन ततः सृष्टिं कर्त्तुमैच्छत्प्रजापतिः 6.
तस्य पुत्रसहस्त्रं तु वैरण्यां समपद्यत 6.
दक्षपुत्रसहस्त्रं च तेषु नष्टेषु सृष्टवान् 6.
दक्षः क्रुद्धः शशापाथ नारदं जन्म चाप्स्यसि 6.
यज्ञे ध्वस्तेऽथ दक्षोऽपि शशापोग्रं महेश्वरम् 6.
जन्मान्तरेऽपि वैरेण ते विनश्यन्ति शङ्कर ! असिक्न्यां (महिष्यां) जनयामास दक्षो दुहितरो ह्यथ ।। 6.
षष्टिं कन्या रूपयुता द्वे चैवांगिरसे ददौ 6.
चतुर्दश कश्यपाय अष्टाविंशातिमिन्दवे 6.
मनोरमां भानुमतीं विशालां बहुदामथ 6.
स कृशाश्वाय च प्रादात्सुप्रजां च तथा जयाम् 6.
सङ्कल्पा च मुहूर्त्ता च साध्या विश्वा च ता दश 6.
अदितिर्दितिर्दनुः काला ह्यनायुः सिंहिका मुनिः 6.
विश्वेदेवास्तु विश्वायाः साध्या साध्यान्व्यजायत 6.
भानोस्तु भानवो रुद्र ! मुहूर्त्ताच्च मुहूर्त्तजाः 6.
पृथिवीविषयं सर्वमरुत्वत्यां व्यजायत 6.
आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः 6.
आपस्य पुत्रो वेतुण्डिः (ण्डः) श्रमः श्रान्तो ध्वनिस्तथा 6.
सोमस्य भगवान्वर्च्चा वर्च्चस्वी येन जायते 6.
मनोहरायां शिशिरः प्राणोऽथ रमणस्तथा 6.
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु 6.
तस्य शाखो विशाखश्च नैगमेयश्च पृष्टतः 6.
प्रत्यूषस्य विदुः पुत्रमृषिं नाम्ना तु देवलम् 6.
अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्य्यवान् 6.
हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः 6.
मृगव्याधश्च शर्वश्च कपाली च महामुने ! 6.
अदित्यां कश्यपाच्चैव सूर्य्या द्वादश जज्ञिरे 6.
विवस्वान्सविता चैव मित्रो वरुण एव च 6.
सप्तविंशतिः सोमस्य पत्न्यो नक्षत्रसंज्ञिताः 6.
सिंहिका चाभवत्कन्या विप्रचित्तिपरिग्रहा 6.