दृक् स्निग्धा विपुला भोगे अल्पायुरधिकोन्नता 65.
घनदीर्घासुसक्तभ्रूर्बालेन्दून्नतसुभ्रुवः 65.
स्त्रीषु गम्यासु सक्ताः स्युः सुतार्थे परिवर्जिताः 65.
निर्धना धनवन्तश्च अर्द्धेन्दुसदृशैर्नराः 65.
उन्नताभिः शिराभिश्च स्वस्तिकाभिर्धनेश्वराः 65.
संवृतैश्च ललाटैश्च कृपणा उन्नतैर्नृपाः 65.
प्रचुराश्रुदीनं रूक्षं च रुदितं च सुखावहम् 65.
असकृद्धसितं दुष्टं सोन्मादस्य ह्यनेकधा 65.
नृपत्वं स्याच्चतसृभिरायुः पञ्चनवत्यथ 65.
केशान्तोपगताभिश्च अशीत्यायुर्नरो भवेत् 65.
चत्वारिंशच्च वक्राभिस्त्रिंशद्भ्रूलग्नगामिभिः 65.
छत्राकारैः शिरोभिस्तु नृपा निम्नशिरा धनी 65.
घटमूर्द्धा पापरुचिर्धनाद्यैः परिवर्जितः 65.
अभिन्नाग्रैश्च मृदुभिर्न चातिबहुभिर्नृपाः 65.
निः स्वाश्चैवातिकुचिलैर्घनैरसित (धिक) मूर्द्धजैः 65.
तत्तत्स्या दशुभं सर्वं ततोऽन्यथा 65.
षडुन्नतश्चतुर्ह्रस्वो रक्तः सप्तसमो नृपः 65.
पुंसः स्यादतिविस्तीर्णं ललाटं वदनं ह्युरः 65.
उन्नतानि च ह्रस्वनि जङ्घा ग्रीवा च लिङ्गकम् 65.
नेत्रान्तपादजिह्वौष्ठाः पञ्च सूक्ष्माणि सन्ति वै 65.
दीर्घाः स्तनान्तरं बाहुदन्तलोचननासिकाः 65.
राज्ञ्याः स्निग्धौ समौ पादौ तलौ ताम्रौ नखौ तथा 65.
निगूढगुल्फोपचितौ पद्मकान्तितलौ शुभौ 65.
वज्राब्जहलचिह्नौ च दास्याः पादौ ततोऽन्यथा 65.
अनुल्बणं सन्धिदेशं समं जानुद्वयं शुभम् 65.
अश्वत्थपत्रसदृशं विपुलं गुह्यमुत्तमम् 65.
गूढो मणिश्च शुभदो नितम्बश्च गुरुः शुभः 65.
नाभिः प्रदक्षिणावर्त्ता मध्यं त्रिबलिशोभितम् 65.
कठिनौ रोमशा शस्ता मृदुग्रीवा च कम्बुभा 65.
कुन्दपुष्पसमा दन्ता भाषितं कोकिलासमम् 65.