निर्मांसैश्चिपिटैर्भोगाः कृपणा ह्रस्वकर्णकाः 65.
बृहत्कर्णाश्च धनिनोराजानः परिकीर्त्तिताः 65.
भोगी वै निम्नगण्डः स्यान्मत्री सम्पूर्णगण्डकः 65.
छिन्नाग्रकूपनासः स्यादगम्यागमने रतः 65.
मृत्युश्चिपिटनासे स्याद्धीनो भाग्यवतां भवेत् 65.
क्रूरे दक्षिणवक्रा स्याद्वलिनां च क्षुतं सकृत् 65.
वक्रान्तैः पद्मपत्राभैर्लोचनैः सुखभागिनः 65.
क्रूराः केकरनेत्राश्च हरिताक्षाः सकल्मषाः 65.
गम्भीराक्षा ईश्वराः स्युर्मन्त्रिणः स्थूलचक्षुषः 65.
स्यात्कृष्णतारकाक्षाणामक्ष्णामुत्पाटनं किल 65.
दृक् स्निग्धा विपुला भोगे अल्पायुरधिकोन्नता 65.
घनदीर्घासुसक्तभ्रूर्बालेन्दून्नतसुभ्रुवः 65.
स्त्रीषु गम्यासु सक्ताः स्युः सुतार्थे परिवर्जिताः 65.
निर्धना धनवन्तश्च अर्द्धेन्दुसदृशैर्नराः 65.
उन्नताभिः शिराभिश्च स्वस्तिकाभिर्धनेश्वराः 65.
संवृतैश्च ललाटैश्च कृपणा उन्नतैर्नृपाः 65.
प्रचुराश्रुदीनं रूक्षं च रुदितं च सुखावहम् 65.
असकृद्धसितं दुष्टं सोन्मादस्य ह्यनेकधा 65.
नृपत्वं स्याच्चतसृभिरायुः पञ्चनवत्यथ 65.
केशान्तोपगताभिश्च अशीत्यायुर्नरो भवेत् 65.
चत्वारिंशच्च वक्राभिस्त्रिंशद्भ्रूलग्नगामिभिः 65.
छत्राकारैः शिरोभिस्तु नृपा निम्नशिरा धनी 65.
घटमूर्द्धा पापरुचिर्धनाद्यैः परिवर्जितः 65.
अभिन्नाग्रैश्च मृदुभिर्न चातिबहुभिर्नृपाः 65.
निः स्वाश्चैवातिकुचिलैर्घनैरसित (धिक) मूर्द्धजैः 65.
तत्तत्स्या दशुभं सर्वं ततोऽन्यथा 65.
षडुन्नतश्चतुर्ह्रस्वो रक्तः सप्तसमो नृपः 65.
पुंसः स्यादतिविस्तीर्णं ललाटं वदनं ह्युरः 65.
उन्नतानि च ह्रस्वनि जङ्घा ग्रीवा च लिङ्गकम् 65.
नेत्रान्तपादजिह्वौष्ठाः पञ्च सूक्ष्माणि सन्ति वै 65.