निर्धना विषमैर्दोर्घैः पीतोपचितकैर्नृपाः 65.
नृपाणामधमानां च खररोमशिरालकम् 65.
वक्षोभिर्विषमैर्निः स्वः शस्त्रेणनिधनास्तथा 65.
उन्नतैर्भोगिनो निम्नैर्निः स्वाः पीनैर्धनान्विताः 65.
शूरः स्यान्महिषग्रीवः शास्त्रात्तो मृगकण्ठकः 65.
अरोमशा भुग्नपृष्ठं शुभंचाशुभमन्यथा 65.
अन्यथा त्वर्थहीनानां दारिद्र्यस्य च कारणम् 65.
आजानुलम्बितौ बाहू वृत्तौ पीनौ नृपेश्वरे 65.
हस्ताङ्गुलय एव स्युवायुद्वारयुताः शुभाः 65.
स्थूलाङ्गुलीभिर्निः स्वाः स्युर्नताः स्युः सुकृशैस्तदा 65.
पितृवित्तविनाशश्च निम्नात्करतलान्नराः 65.
नृपा हीनाः करच्छैदैः सशब्दैर्धनवर्जिताः 65.
प्रोत्तानक रदातारो विषमैर्विषमा नराः 65.
परदाररताः पीतैरूक्षैर्निः स्वा नरा मताः 65.
निः स्वाश्च कुनखैस्तद्वद्विवर्णैः परतर्ककाः 65.
अङ्गुष्ठमूलजैः पुत्री स्याद्दीर्घांगुलिपर्वकः 65.
घनाङ्गुलिश्च सधनस्तिस्रो रेखाश्चयस्य वै 65.
युगमीनाङ्कितनरो भवेत्सत्रप्रदो नरः 65.
शङ्खातपत्रशिविकागजपद्मोपमा नृपे 65.
दामाभाश्च गवाढ्यानां स्वस्तिकाभा नृपेश्वरे 65.
उलूखलाभा यज्ञाढ्या वेदीभा चाग्निहोत्रिणि 65.
अङ्गुष्ठमूलगा रेखाः पुत्राः सूक्ष्माश्च दारिकाः 65.
शतायुषं च कुरुते छिन्नया तरुतो भयम् 65.
मांसलैश्च धनोपेता आरक्तैरधरैर्नृपाः 65.
विषमैर्धनहीनाश्च दन्ताः स्निग्धा घनाः शुभाः 65.
श्लक्ष्णा दीर्घा च विज्ञेया तालुः श्वेते धनक्षये 65.
भूपानाममलं श्लक्ष्णं विपरीतं च दुः खिनाम् 65.
आढ्यानां वर्त्तुलं वक्रं निर्द्रव्याणां च दीर्घकम् 65.
निम्नं वक्रमपुत्राणां कृपणानां च ह्रस्वकम् 65.
संहतं चास्फुटिताग्रं रक्तश्मश्रुश्च चौरकः 65.