दरिद्रः क्षारगन्धे च दीर्घायुः शीघ्रमैथुनी 65.
मांसलस्फिक् सुखी स्याच्च सिंहस्फिक् भूपतिः स्मृतः 65.
सर्पोदरा दरिद्राः स्युः पिठरैश्च घटैः समैः 65.
समकक्षाश्च भोगाढ्या निम्नकक्षा धनोज्झिताः 65.
मत्स्योदरा बहुधना नाभिभिः सुखिनः स्मृताः 65.
बलिमध्यगता नाभिः शूलबाधां करोति हि 65.
पार्श्वायता चिरायुर्दा तूपविष्टा धनेश्वरम् 65.
एकबलिः शतायुः स्याच्छ्रीभोगी द्विवलिः स्मृतः 65.
अगम्यागामी जिह्मबलिर्भूपाः पार्श्वैश्च मांसलैः 65.
विपरीतैः परप्रेष्या निर्द्रव्याः सुखवर्जिताः 65.
निर्धना विषमैर्दोर्घैः पीतोपचितकैर्नृपाः 65.
नृपाणामधमानां च खररोमशिरालकम् 65.
वक्षोभिर्विषमैर्निः स्वः शस्त्रेणनिधनास्तथा 65.
उन्नतैर्भोगिनो निम्नैर्निः स्वाः पीनैर्धनान्विताः 65.
शूरः स्यान्महिषग्रीवः शास्त्रात्तो मृगकण्ठकः 65.
अरोमशा भुग्नपृष्ठं शुभंचाशुभमन्यथा 65.
अन्यथा त्वर्थहीनानां दारिद्र्यस्य च कारणम् 65.
आजानुलम्बितौ बाहू वृत्तौ पीनौ नृपेश्वरे 65.
हस्ताङ्गुलय एव स्युवायुद्वारयुताः शुभाः 65.
स्थूलाङ्गुलीभिर्निः स्वाः स्युर्नताः स्युः सुकृशैस्तदा 65.
पितृवित्तविनाशश्च निम्नात्करतलान्नराः 65.
नृपा हीनाः करच्छैदैः सशब्दैर्धनवर्जिताः 65.
प्रोत्तानक रदातारो विषमैर्विषमा नराः 65.
परदाररताः पीतैरूक्षैर्निः स्वा नरा मताः 65.
निः स्वाश्च कुनखैस्तद्वद्विवर्णैः परतर्ककाः 65.
अङ्गुष्ठमूलजैः पुत्री स्याद्दीर्घांगुलिपर्वकः 65.
घनाङ्गुलिश्च सधनस्तिस्रो रेखाश्चयस्य वै 65.
युगमीनाङ्कितनरो भवेत्सत्रप्रदो नरः 65.
शङ्खातपत्रशिविकागजपद्मोपमा नृपे 65.
दामाभाश्च गवाढ्यानां स्वस्तिकाभा नृपेश्वरे 65.