समुद्रोक्तं प्रवक्ष्यामि नरस्त्रीलक्षणं शुभम् 65.
अस्वेदिनौ मृदुतलौ कमलोदरसन्निभौ 65.
कूर्मोन्नतौ गूढगुल्फौ सुपार्ष्णो नृपतेः स्मृतौ 65.
संशुष्कौ पाण्डुरनखौ निः स्वस्य विरलाङ्गुली 65.
विच्छित्तिदौ च वंशस्य ब्रह्मन्घौ शङ्कु (पक्र) सन्निभौ 65.
मृदुरोमा समा जङ्घा तथा करिकरप्रभा 65.
निः स्वस्य सृगालजङ्घा रौमैकैकं चकूपके 65.
त्र्याद्यैर्निः स्वा मानवाः स्युर्दुः स्वभाजश्च निन्दिताः 65.
निर्मांसजानुः सौभाग्यमल्पैर्निम्नै रतिः स्त्रियाः 65.
महद्भिरायुराख्यातं ह्यल्पलिङ्गो धनी नरः 65.
मेढ्र वामनते चैव सुतार्थरहितो भवेत् 65.
अल्पे त्वतनयो लिङ्गेशिरालेऽथ सुखी नरः 65.
कोशगूढे दीर्घैर्भुग्नैश्च धनवर्जितः 65.
दुर्बलस्त्वेकवृषणो विषमाभ्याञ्चलः स्त्रियाम् 65.
उद्वृं (द्ध) ताभ्यां च बह्वायू रूक्षैर्मणिभिरीश्वरः 65.
सशब्दनिः शब्दमूत्राः स्युदंरिद्राश्च मानवाः 65.
दक्षिणावर्त्तचलितमूत्रा भिश्च नृपाः स्मृताः 65.
एकधाराश्च वनिताः स्निग्धैर्मणिभिरुन्नतैः 65.
शुष्कैर्निश्वा विशुष्कैश्च दुर्भगाः परिकीर्त्तिताः 65.
पुत्राः शुक्रे मत्स्यगन्धे तनुशुक्रे च कन्यकाः 65.
दरिद्रः क्षारगन्धे च दीर्घायुः शीघ्रमैथुनी 65.
मांसलस्फिक् सुखी स्याच्च सिंहस्फिक् भूपतिः स्मृतः 65.
सर्पोदरा दरिद्राः स्युः पिठरैश्च घटैः समैः 65.
समकक्षाश्च भोगाढ्या निम्नकक्षा धनोज्झिताः 65.
मत्स्योदरा बहुधना नाभिभिः सुखिनः स्मृताः 65.
बलिमध्यगता नाभिः शूलबाधां करोति हि 65.
पार्श्वायता चिरायुर्दा तूपविष्टा धनेश्वरम् 65.
एकबलिः शतायुः स्याच्छ्रीभोगी द्विवलिः स्मृतः 65.
अगम्यागामी जिह्मबलिर्भूपाः पार्श्वैश्च मांसलैः 65.
विपरीतैः परप्रेष्या निर्द्रव्याः सुखवर्जिताः 65.