निः स्वाः सशब्दमूत्राः स्युर्नृपा निश्शब्दधारया 63.
सर्पोदरा दरिद्राः स्यू रेखाभिस्चायुरुच्यते 63.
सुखी पुत्रसमायुक्तः स षष्टिं जीवते नरः 63.
विंशत्यब्दं त्वेकरेखा आकर्णान्ताः शतायुषः ॥ 63.
सप्तत्यायुर्द्विरेखा तु षष्ट्यायुस्तिसृभिर्भवेत् 63.
चत्वारिंशच्च वर्षाणि हीनरेखस्तु जीवति 63.
त्रिशूलं पट्टिशं वापि ललाटे यस्य दृश्यते 63.
तर्जन्या मध्यमाङ्गुल्या आयूरेखा तु मध्यतः 63.
प्रथमा ज्ञानरेखा तु ह्यंगुष्ठादनुवर्त्तते 63.
कनिष्ठिकां समाश्रित्य आयूरेखा समाविशेत् 63.
यस्य पाणितले रेखा आयुस्तस्य प्रकाशयेत् 63.
कनिष्ठिकां समाश्रित्य मध्यमायामुपागता 63.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे सामुद्रिके पुँल्लक्षणनिरूपणं नाम त्रिषष्टितमोऽध्यायः
यस्यास्तु कुञ्चिताः केशा मुखं च परिमण्डलम् 64.
या च काञ्चनवर्णाभा रक्तहस्तसरोरुहा 64.
वक्रकेशा च या कन्या मण्डलाक्षी च या भवेत् 64.
पूर्णचन्द्रमुखी कन्या बालसूर्य्यसमप्रभा 64.
रेखाभिर्बहुभिः क्लेशं स्वल्पाभिर्धनहीनता 64.
कार्य्ये च मन्त्री सत्स्त्री स्यात्सती (खी) स्यात्करणेषु च 64.
अङ्कुशं कुण्डलं चक्रं यस्याः पाणितले भवेत् 64.
यस्यास्तु रोमशौ पार्श्वौ रोमशौ च पयोधरौ 64.
यस्याः पाणितले रेखा प्राकारस्तोरणं भवेत् 64.
उद्वृत्ता कपिला यस्य रोमराजी निरन्तरम् 64.
यस्या अनामिकाङ्गुष्ठौ पृथिव्यां नैव तिष्ठतः 64.
यस्या गमनमात्रेण भूमिकम्पः प्रजायते 64.
चक्षुः स्नेहेन सौभाग्यं दन्तस्नेहेन भोजनम् 64.
स्निग्धोन्नतौ ताम्रनखौ नार्याश्च चरणौ शुभौ 64.
अस्वेदिनौ मूदुतलौ प्रशस्तौ चरणौ स्त्रियाः 64.
अश्वत्थपत्रसदृशं विपुलं गुह्यमुत्तमम् अरोमा त्रिवली नार्य्या हृत्स्तनौ रोमवर्जितौ ॥ 64.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे सामुद्रिके स्त्रीलक्षणनिरूपणं नाम चतुः षष्टितमोऽध्यायः