स्थाप्यं गृहप्रवेशश्च गजबन्धः शनौ शुभः ॥ 62.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे लग्नघटिका प्रमाणादिनिरूपणं नाम द्विषष्टितमोऽध्यायः
नरस्त्रीलक्षणं वक्ष्ये संक्षपाच्छृणु शङ्कर 63.
श्लिष्टाङ्गुली ताम्रनखौ सुगुल्फौ शिरयोज्झितौ 63.
विरूक्षपाण्डुरनखौ वक्रौ चैव शिरानतौ 63.
दुः खदारिद्यदौ स्याता नात्र कार्य्यां विचारणा 63.
रोमैकैकं कूपके स्याद्भूपानां तु महात्मनाम् 63.
रोमत्रयं दरिद्राणां रोगी निर्मांसजानुकः 63.
स्थूललिङ्गो दरिद्रः स्यादुख्येकवृष्णी भवेत् 63.
प्रलम्बवृषणोऽल्पायुर्निर्द्रव्यः कुमणिर्भवेत् 63.
निः स्वाः सशब्दमूत्राः स्युर्नृपा निश्शब्दधारया 63.
सर्पोदरा दरिद्राः स्यू रेखाभिस्चायुरुच्यते 63.
सुखी पुत्रसमायुक्तः स षष्टिं जीवते नरः 63.
विंशत्यब्दं त्वेकरेखा आकर्णान्ताः शतायुषः ॥ 63.
सप्तत्यायुर्द्विरेखा तु षष्ट्यायुस्तिसृभिर्भवेत् 63.
चत्वारिंशच्च वर्षाणि हीनरेखस्तु जीवति 63.
त्रिशूलं पट्टिशं वापि ललाटे यस्य दृश्यते 63.
तर्जन्या मध्यमाङ्गुल्या आयूरेखा तु मध्यतः 63.
प्रथमा ज्ञानरेखा तु ह्यंगुष्ठादनुवर्त्तते 63.
कनिष्ठिकां समाश्रित्य आयूरेखा समाविशेत् 63.
यस्य पाणितले रेखा आयुस्तस्य प्रकाशयेत् 63.
कनिष्ठिकां समाश्रित्य मध्यमायामुपागता 63.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे सामुद्रिके पुँल्लक्षणनिरूपणं नाम त्रिषष्टितमोऽध्यायः
यस्यास्तु कुञ्चिताः केशा मुखं च परिमण्डलम् 64.
या च काञ्चनवर्णाभा रक्तहस्तसरोरुहा 64.
वक्रकेशा च या कन्या मण्डलाक्षी च या भवेत् 64.
पूर्णचन्द्रमुखी कन्या बालसूर्य्यसमप्रभा 64.
रेखाभिर्बहुभिः क्लेशं स्वल्पाभिर्धनहीनता 64.
कार्य्ये च मन्त्री सत्स्त्री स्यात्सती (खी) स्यात्करणेषु च 64.
अङ्कुशं कुण्डलं चक्रं यस्याः पाणितले भवेत् 64.