पञ्चाननो वृषः कुम्भा वृश्चिकः स्युः स्थिराणि हि 62.
द्विस्वभावानि कर्माणि कुर्य्यादेषु विचक्षणः 62.
देवस्थापनवैवाह्यं द्विस्वभावेन कारयेत् 62.
द्वितीया सप्तमी भद्रा द्वादशी वृषभध्वज 62.
चतुर्थो नवमी रिक्ता सा वर्ज्याथ चतुर्दशी 62.
चरः सौम्यो गुरुः क्षिप्रो मृदुः शुक्रो रविर्ध्रुवः 62.
चरक्षिप्रैः प्रयातव्यं प्रवेष्टव्यं मृद्रुध्रुवैः 62.
नृपाभिषेकोऽग्निकार्य्यं सोमवारे प्रशस्यते 62.
सैनापत्यं शौर्ययुद्धं शस्त्राभ्यासः कुजे स्मृतः 62.
पठनं देवपूजा च वस्त्राद्याभरणं गुरौ 62.
स्थाप्यं गृहप्रवेशश्च गजबन्धः शनौ शुभः ॥ 62.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे लग्नघटिका प्रमाणादिनिरूपणं नाम द्विषष्टितमोऽध्यायः
नरस्त्रीलक्षणं वक्ष्ये संक्षपाच्छृणु शङ्कर 63.
श्लिष्टाङ्गुली ताम्रनखौ सुगुल्फौ शिरयोज्झितौ 63.
विरूक्षपाण्डुरनखौ वक्रौ चैव शिरानतौ 63.
दुः खदारिद्यदौ स्याता नात्र कार्य्यां विचारणा 63.
रोमैकैकं कूपके स्याद्भूपानां तु महात्मनाम् 63.
रोमत्रयं दरिद्राणां रोगी निर्मांसजानुकः 63.
स्थूललिङ्गो दरिद्रः स्यादुख्येकवृष्णी भवेत् 63.
प्रलम्बवृषणोऽल्पायुर्निर्द्रव्यः कुमणिर्भवेत् 63.
निः स्वाः सशब्दमूत्राः स्युर्नृपा निश्शब्दधारया 63.
सर्पोदरा दरिद्राः स्यू रेखाभिस्चायुरुच्यते 63.
सुखी पुत्रसमायुक्तः स षष्टिं जीवते नरः 63.
विंशत्यब्दं त्वेकरेखा आकर्णान्ताः शतायुषः ॥ 63.
सप्तत्यायुर्द्विरेखा तु षष्ट्यायुस्तिसृभिर्भवेत् 63.
चत्वारिंशच्च वर्षाणि हीनरेखस्तु जीवति 63.
त्रिशूलं पट्टिशं वापि ललाटे यस्य दृश्यते 63.
तर्जन्या मध्यमाङ्गुल्या आयूरेखा तु मध्यतः 63.
प्रथमा ज्ञानरेखा तु ह्यंगुष्ठादनुवर्त्तते 63.
कनिष्ठिकां समाश्रित्य आयूरेखा समाविशेत् 63.