धनधान्यागमः षष्ठे रतिः पूजा च सप्तमे 61.
दशमे कार्य्यनिष्पत्तिध्रुवमेकादशे जयः 61.
कृत्तिकादौ च पूर्वेण सप्तर्क्षाणि च वै व्रजेत् 61.
प्रशस्ता चोत्तर यात्रा धनिष्ठादिषु सप्तसु 61.
मृगाश्विचित्रापुष्याश्च मूला हस्ता शुभाः सदा 61.
शुक्रचन्द्रौ हि जन्मस्थौ शुभदौ च द्वितीयके 61.
भौममन्दशशाङ्कार्का बुधः श्रेष्ठस्चतुर्थके 61.
मन्दार्कौ च कुजः षष्ठे गुरुचन्द्रौ च सप्तमे 61.
अर्कार्किचन्द्रा दशमे ग्रहा एकादशेखिलाः 61.
सिंहेन मकरः श्रेष्ठः कन्यया मेष उत्तमः 61.
धनुषा वृषभः श्रेष्ठो मिथुनेन च वृश्चिकः 61.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे ग्रहाणां शुभाशुभस्थानादिनिरूपणं नामैकपष्टितमोऽध्यायः
उदयात्तु समारभ्य राशौ भानुः स्थितो हर 62.
मीने मेषे च पञ्च स्युश्चतस्त्रो वृष कुम्भयोः 62.
सिंहे च वृश्चिके षट् च सप्त कन्यातुले तथा 62.
रसपूर्वावसानेषु रसाब्धिष्वरिसागराः 62.
मेषलग्ने भवेद्वन्ध्या वृषे भवति कामिनी 62.
सिंहे चैवाल्पपुत्रा च कन्यायां रूपसंयुता 62.
सौभाग्यधनुषि स्याच्च मकरे नीचगामिनी 62.
तुला कर्कटको मेषो मकरश्चैव राशयः 62.
पञ्चाननो वृषः कुम्भा वृश्चिकः स्युः स्थिराणि हि 62.
द्विस्वभावानि कर्माणि कुर्य्यादेषु विचक्षणः 62.
देवस्थापनवैवाह्यं द्विस्वभावेन कारयेत् 62.
द्वितीया सप्तमी भद्रा द्वादशी वृषभध्वज 62.
चतुर्थो नवमी रिक्ता सा वर्ज्याथ चतुर्दशी 62.
चरः सौम्यो गुरुः क्षिप्रो मृदुः शुक्रो रविर्ध्रुवः 62.
चरक्षिप्रैः प्रयातव्यं प्रवेष्टव्यं मृद्रुध्रुवैः 62.
नृपाभिषेकोऽग्निकार्य्यं सोमवारे प्रशस्यते 62.
सैनापत्यं शौर्ययुद्धं शस्त्राभ्यासः कुजे स्मृतः 62.
पठनं देवपूजा च वस्त्राद्याभरणं गुरौ 62.