शनैश्चरे दश ज्ञेया गुरोरेकोनविंशतिः 60.
रवेर्दशा दुः खदा स्यादुद्वेगनृपनाशकृत् 60.
दुः खप्रदा कुजदशा राज्यादेः स्याद्विनाशिनी 60.
शनेर्दशा राज्यनाशबन्धुदुः खकरी भवेत् 60.
राहोर्दशा राज्यनाशव्याधिदा दुः खदा भवेत् 60.
मेष अङ्गारकक्षेत्रं वृषः शुक्रस्य कीर्त्तितः 60.
सूर्य्यक्षेत्रं भवेत्सिंहः कन्या क्षेत्रं बुधस्य च 60.
धनुः सुर गुरोश्चैव शनेर्मकरकुम्भकौ 60.
पौर्णमास्याद्वयं तत्र पूर्वाषाढाद्वयं भवेत् 60.
अश्विनी रेवती चित्रा धनिष्ठा स्यादलङ्कृतौ 60.
नकुलो मूषकश्चैव यात्रायां दक्षिणे शुभः 60.
वेणुस्त्रीपूर्णकुम्भाश्च यात्रायां दर्शनं शुभम् 60.
कार्पासौषधितैलं च पक्वाङ्गारभुजङ्गमाः 60.
हिक्काय लक्षणं वक्ष्ये लभत्पूर्वे महाफलम् 60.
नैर्ऋत्य शोकसन्तापौ मिष्टान्नं चैव पश्चिमे 60.
ईशाने मरणं प्रोक्तं हिक्कायाश्चफलाफलम् 60.
यस्मिन्नृक्षे वसद्भानुस्तदांदि त्रीणि मस्तके 60.
एकैकं बाहुयुग्मे तु एकैकं हस्तयोर्द्वयोः 60.
ऋक्षमेकं न्यसेद्गुह्ये एकैकं जानुके न्यसेत् 60.
चरणस्थेन ऋक्षेण अल्पायुर्जायते नरः 60.
नाभिस्थेनाल्पसन्तुष्टो हृत्स्थेन स्यान्महेश्वरः 60.
स्कन्धस्थिते धनपतिर्मुखे मिष्टान्नमाप्नुयात् 60.
इति श्रीगारुडे महापुराणे पूर्वखण्डं प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे ग्रहदशादिनिरूपणं नाम षष्टितमोऽध्यायः
सप्तमोपचयाद्यस्थश्चन्द्रः सर्वत्र शोभनः 61.
संपूज्यमानो लोकैस्तु गुरुवदॄश्यते शशी 61.
त्रिषु त्रिषु च ऋक्षेषु अश्विन्यादि वदाम्यहम् 61.
हास्यावस्थं नता(क्रीडा) वस्थं प्रमोदावस्थमेव च 61.
कम्पा(न्या) वस्थं सुखावस्थं द्वादशावस्थगं भवेत् 61.
शोको भोगो ज्वरः कम्पः सुखं चेति क्रमात्फलम् 61.
तृतीये राजसन्मानं चतुर्थे कलहागमः 61.