सन्तोषं च तथा तुष्टिर्लोभं पुष्टिरसूयत 5.
बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम् 5.
सुखमृद्धिर्यशः कीर्त्तिरित्येते धर्मसूनवः 5.
ईजे कदाचिद्यज्ञेन हयमेधेन दक्षकः 5.
भार्य्यभिः सहिताः सर्वे रुद्रं देवीं सतीं विना 5.
त्यक्ता देहं पुनर्जाता मेनायां तु हिमालयात् 5.
कुमारश्चैव भृंगीशः क्रुद्धो रुद्रः प्रतापवान् ध्रुवस्यान्वयसम्भूतो मनुष्यस्त्वं भविष्यसि ।। 5.
उत्तानपादादभवत्सुरुच्यामुत्तमः सुतः 6.
मुनिप्रसादादाराध्य देवदेवं जनार्दनम् 6.
तस्य प्राचीनवर्हिस्तु पुत्रस्तस्याप्युदारधीः 6.
रिपोः पुत्रस्तथा श्रीमाँश्चाक्षुषः कीर्त्तितो मनुः 6.
अंगस्य वेणः पुत्रस्तु नास्तिको धर्मवर्जितः 6.
ऊरुं ममन्थुः पुत्रार्थे ततोऽस्य तनयोऽभवत् 6.
निषादस्तेन वै जातो बिन्ध्यशैलनिवासकः 6.
तस्मात्तस्य सुतो जातो विष्णोर्मानसरूपधृक् 6.
दुदोह पृथिवीं राजा प्रजानां जीवनाय हि 6.
प्राचीनबर्हिस्त्पुत्रः पृथिव्यामेकराड् बभौ 6.
तस्मात्सुषाव सामुद्री दश प्राचीनबर्हिषः 6.
अपृथगधर्म्मचरणास्तेऽतप्यन्त महत्तपः 6.
प्रजापतित्वं संप्राप्य भार्य्या तेषां च मारिष 6.
असृजन्मनसा दक्षः प्रजाः पूर्वं चतुर्विधाः 6.
मैथुनेन ततः सृष्टिं कर्त्तुमैच्छत्प्रजापतिः 6.
तस्य पुत्रसहस्त्रं तु वैरण्यां समपद्यत 6.
दक्षपुत्रसहस्त्रं च तेषु नष्टेषु सृष्टवान् 6.
दक्षः क्रुद्धः शशापाथ नारदं जन्म चाप्स्यसि 6.
यज्ञे ध्वस्तेऽथ दक्षोऽपि शशापोग्रं महेश्वरम् 6.
जन्मान्तरेऽपि वैरेण ते विनश्यन्ति शङ्कर ! असिक्न्यां (महिष्यां) जनयामास दक्षो दुहितरो ह्यथ ।। 6.
षष्टिं कन्या रूपयुता द्वे चैवांगिरसे ददौ 6.
चतुर्दश कश्यपाय अष्टाविंशातिमिन्दवे 6.
मनोरमां भानुमतीं विशालां बहुदामथ 6.