बीजानां वपनं कुर्य्याद्गमनागमनादिकम् 59.
पार्श्वेषु यानि कर्माणि कुर्य्यादेतेषु तान्यपि 59.
वारुणं श्रवणं चैव नव चोर्ध्वमुखाः स्मृताः 59.
ऊर्ध्वमुख्यान्युच्छ्रितानि सर्वाण्येतेषु कारयेत् 59.
अमावास्या पूर्णिमा च तद्वादशी च चतुर्दशी 59.
तृतीया भूमिपुत्रेण चतुर्थी च शनैश्चरे 59.
सप्तमी सोमपुत्रेण अष्टमी कुजभास्करौ 59.
एकादश्या गुरुशुक्रौ द्वादश्यां च पुनर्बुधः 59.
पौर्णमास्यप्यमावास्या श्रेष्ठा स्याच्च बृहस्पतौ 59.
कुजो दहेच्च दशमीं नवमीं च बुधो दहेत् 59.
सूर्य्यपुत्रो दहेत्षष्ठीं गमनाद्यासु नास्ति वै 59.
बुधवारे प्रस्थानं दूरतः परिवर्जयेत् 59.
वृषे कुम्भे चतुर्थो च द्वादशी मकरे तुले 59.
एता दग्धा न गन्तव्यं पीडादिः किल मानवैः 59.
धनिष्ठात्रितयं भौमे बुधे वै रेवतीत्रयम् 59.
शनिवारे वर्जयेच्च उत्तराफल्गुनीत्रयम् 59.
मूलेऽर्कः श्रवणे चन्द्रः प्रोष्ठपद्युत्तरे कुजः 59.
पूर्वफल्गुनी शुक्रे च स्वातिश्चैव शनैश्वरे 59.
कालं प्रवध्यन्नि ? शक्तिदा ? नेष्टमंद ? 59.
एकीकृत्याक्षरान्मात्रं नाम्नोः स्त्रीपुंसयोस्त्रिभिः 59.
विष्कम्भे घटिकाः पंच शूले सप्त प्रकीर्तिताः 59.
व्यतीपाते च परिघे वैधृते च दिनेदिने 59.
हस्तेऽर्कश्च गुरुः पुष्ये अनुराधा बुधे शुभा 59.
शुक्रे च रेवती श्रेष्ठा अश्विनी मंगले शुभा 59.
भार्गवे भरणी चैव सोमे चित्रा वृषध्वज ! 59.
गुरौ शतभिषा रुद्र ! शुक्रे वै रोहिणी तथा 59.
पुष्यः पुनर्वसुश्चैव रेवती चित्रया सह 59.
कुर्य्याच्छतभिषायां च जातकर्मादि मानवः आश्लेषा कृत्तिका रुद्र ! प्रस्थाने मरणप्रदाः ॥ 59.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे नक्षत्रतद्देवतादग्धयोगादिनिरूपणं नामैकोनषष्टितमोऽध्यायः
षडादित्ये दशा ज्ञेया सोमे पञ्चदश स्मृताः 60.