कृत्तिकास्त्वग्निदेवत्या रोहिण्यो ब्रह्मणः स्मृताः 59.
पुनर्वसुस्तथादित्यस्तिष्यश्च गुरुदैवतः 59.
भाग्याश्च पूर्वफल्गुन्य अर्य्यमा च तथोत्तरः 59.
स्वाती च वायुदेवत्या नक्षत्रं परिकीर्त्तितम् 59.
मैत्रमृक्षमनूराधा ज्येष्ठा शाक्रं प्रकीर्त्तितम् 59.
आप्यास्त्वाषाढपूर्वास्तु उत्तरा वैश्वदेवताः 59.
वासवस्तु तथा ऋक्षं धनिष्ठा प्रोच्यते बुधैः 59.
आजं भाद्रपदा पूर्वा अहिर्ब्रुध्न्यस्तथोत्तरा 59.
भरण्यृक्षं तथा याम्यं प्रोक्तास्ते ऋक्षदेवताः 59.
माहेश्वरी चोत्तरे च द्वितीया दशामीतिथौ 59.
षष्ठ्यां चैव चतुर्दश्यामिन्द्राणी पश्चिमे स्थिता 59.
अष्टम्यमावास्ययोगे महालक्ष्मीशगोचरे 59.
द्वादश्यां च चतुर्थ्यां तु कौमारी नैर्ऋते तथा 59.
अश्विनीमैत्ररेवत्यो मृगमूलपुनर्वसु 59.
हस्तादिपञ्चऋक्षाणि उत्तरात्रयमेव च 59.
वस्त्रप्रावरणे श्रेष्ठो नक्षत्राणां गणः स्मृतः 59.
त्रीणि, पूर्वा तथा चैव अधोवक्राः प्रकीर्त्तिताः ? 59.
देवागारस्य खननं निधानखननं तथा 59.
कुर्य्यादधोगतान्येव अन्यानि च वृषध्वज 59.
अनुराधा मृगो ज्येष्ठा एते पार्श्वमुखाः स्मृताः 59.
बीजानां वपनं कुर्य्याद्गमनागमनादिकम् 59.
पार्श्वेषु यानि कर्माणि कुर्य्यादेतेषु तान्यपि 59.
वारुणं श्रवणं चैव नव चोर्ध्वमुखाः स्मृताः 59.
ऊर्ध्वमुख्यान्युच्छ्रितानि सर्वाण्येतेषु कारयेत् 59.
अमावास्या पूर्णिमा च तद्वादशी च चतुर्दशी 59.
तृतीया भूमिपुत्रेण चतुर्थी च शनैश्चरे 59.
सप्तमी सोमपुत्रेण अष्टमी कुजभास्करौ 59.
एकादश्या गुरुशुक्रौ द्वादश्यां च पुनर्बुधः 59.
पौर्णमास्यप्यमावास्या श्रेष्ठा स्याच्च बृहस्पतौ 59.
कुजो दहेच्च दशमीं नवमीं च बुधो दहेत् 59.