पूषा च सुरुचिर्धाता गौतमोऽथ धनञ्जयः 58.
विश्वावसुर्भरद्वाजः पर्जन्यैरावतौ तदा 58.
अंशुश्च काश्यपस्तार्क्ष्यो महापद्मस्तथोर्वशी 58.
क्रतुर्भर्गस्तथोर्णायुः स्फूर्जः कर्कोटकस्तथा पौषमासे वसन्त्येते सप्त भास्करमण्डले ॥ 58.
त्वष्टाथ जमदग्निश्च कम्बलोऽथ तिलोत्तमा माघमासे वसन्त्येते सप्त भास्करमण्डले ॥ 58.
विष्णुरश्वतरो रम्भा सूर्य्यवर्च्चाश्च सत्यजित् 58.
सवितुर्मण्डले ब्रह्मन्विष्णुशक्त्युपबृंहिताः 58.
नृत्यन्त्योऽप्सरसो यान्ति सूर्य्यस्यानुनिशाचराः 58.
बालखिल्यास्तथैवैनं परिवार्य्य समासते 58.
वामदक्षिणतो युक्ता दश तेन चरत्यसौ 58.
पिशंगेस्तुरगैर्युक्तः सोऽष्टाभिर्वायुवेगिभिः 58.
सोपासङ्गपताकस्तु शुक्रस्यापि रथो महान् 58.
अष्टाश्वः काञ्चनः श्रीमान् भौमस्यापि रथो महान् ॥ 58.
पद्मरागारुणैरश्वैः संयुक्तो वह्निसंभवैः 58.
तिष्ठंस्तिष्ठति वर्षं वै राशौराशौ बृहस्पतिः 58.
समारुह्य शनैर्याति मन्दगामी शनैश्चरः 58.
सकृद्यक्तास्तु भूतेशबहन्त्यविरतं शिव 58.
पलालधूमवर्णाभा लाक्षारसनिभारुणाः 58.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशनिरूपणं नामाष्टपञ्चाशत्तमोऽध्यायः
(अथ ज्योतिः शास्त्रम्) ज्योतिश्चक्रं भुवो मानमुक्त्वा प्रोवाच केशवः 59.
कृत्तिकास्त्वग्निदेवत्या रोहिण्यो ब्रह्मणः स्मृताः 59.
पुनर्वसुस्तथादित्यस्तिष्यश्च गुरुदैवतः 59.
भाग्याश्च पूर्वफल्गुन्य अर्य्यमा च तथोत्तरः 59.
स्वाती च वायुदेवत्या नक्षत्रं परिकीर्त्तितम् 59.
मैत्रमृक्षमनूराधा ज्येष्ठा शाक्रं प्रकीर्त्तितम् 59.
आप्यास्त्वाषाढपूर्वास्तु उत्तरा वैश्वदेवताः 59.
वासवस्तु तथा ऋक्षं धनिष्ठा प्रोच्यते बुधैः 59.
आजं भाद्रपदा पूर्वा अहिर्ब्रुध्न्यस्तथोत्तरा 59.
भरण्यृक्षं तथा याम्यं प्रोक्तास्ते ऋक्षदेवताः 59.
माहेश्वरी चोत्तरे च द्वितीया दशामीतिथौ 59.