सुकुमारी कुमारी च नलिनी धेनुका च या 56.
शबलात्पुष्करेशाच्च महावीरश्च धातकिः 56.
योजनानां सहस्त्राणि ऊर्द्ध्वं पञ्चाशदुच्छ्रितः 56.
स्वादूदकेनोदधिना पुष्करः परिवेष्टितः 56.
द्विगुणा काञ्चनी भूमिः सर्वजन्तुविवर्जिता तमसा पर्वतो व्याप्तस्तमोऽप्यण्डकटाहतः ॥ 56.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशवर्णनं नाम षट्पञ्चाशत्तमोऽध्यायः
सप्ततिस्तु सहस्त्राणि भूम्युच्छ्रायोऽपि कथ्यते 57.
अतलं वितलं चैव नितलं च गभस्तिमत् 57.
कृष्णा शुक्लारुणा पीता शर्करा शैलकाञ्चना 57.
रौद्रे तु पुष्करद्वीपे नरकाः सन्ति ताञ्छृणु 57.
महाज्वालस्तप्तकुम्भो लवणोऽथि विमोहितः 57.
असिपत्रवनः कृष्णो नानाभक्षश्च दारुणः 57.
संदंशः कृष्णसूत्रश्च तमश्चावीचिरेव च 57.
पापिनस्तेषु पच्यन्ते विषशस्त्राग्निदायिनः 57.
वारिवह्न्यनिलाकाशैर्वृतं भूतादिना च तत् 57.
अण्डं दशगुणं व्याप्तं नारायणः स्थितः ॥ 57.
इति गारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशगतापातलनरकादिनिरूपणं नाम सप्तपञ्चाशत्तमोऽध्यायः
वक्ष्ये प्रमाणसंस्थाने सूर्य्यादीनां श्रृणुष्व मे 58.
ईशादण्डस्तथैवास्य द्विगुणो वृषभध्वज 58.
योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम् 58.
संवत्सरमये कृत्स्नं कालचक्रं प्रतिष्ठितम् 58.
पञ्चान्यानि तु सार्द्धानि स्यन्दनस्य वृषध्वज 58.
ह्रस्वोऽक्षस्तद्युगार्द्धेन ध्रुवाधारे रथस्य वै 58.
गायत्त्री सबृहत्युष्णिग्जगतीत्रिष्टुबेव च 58.
धाता क्रतुस्थला चैव पुलस्त्यो वासुकिस्तथा 58.
अर्य्यमा पुलहश्चैव रथौजाः पुञ्जिकस्थला 58.
मित्रोऽत्रिस्तक्षको रक्षः पौरुषेयोऽथ मेनका 58.
वरुणो वसिष्ठो रम्भा सहजन्या कुहुर्बुधः । 58.
इन्द्रो विश्वावसुः स्त्रोत(श्रोत्र) एलापत्रस्तथाङ्गिराः 58.
विवस्वानुग्रसेनश्च भृगुरापूरणस्तथा 58.