विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः 55.
तापी पयोष्णी सरयूः कावेरी गोमती तथा 55.
केतुमाला ताम्रपर्णो चन्द्रभागा सरस्वती 55.
विदर्भा च शतद्रूश्च नद्यः पापहराः शुभाः 55.
पाञ्चालाः कुरवो मत्स्या यौधेयाः सपटच्चराः 55.
वृषध्वज ! जनाः पाद्माः सूतमागधचेदयः 55.
कलिंगवंगपुण्ड्रांगा वैदर्भा मूलकास्तथा 55.
पुलन्दाश्मकजीमूतनयराष्ट्रनिवासिनः 55.
अम्बष्ठद्रविडा लाटाः काम्बोजाः स्त्रीमुखाः शकाः 55.
स्त्रीराज्याः सैन्धवा म्लेच्छा नास्ति का यवनास्तथा 55.
माण्डव्याश्च तुषाराश्च मूलिकाश्वमुखाः खशाः 55.
लम्ब (म्पा) का स्तननागाश्च माद्रगान्धारबाह्लिकाः 55.
त्रिगर्त्तनीलकोलात (भ) ब्रह्मपुत्राः सटङ्कणाः 55.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशवर्णनं नाम पञ्चपञ्चाशत्तमोऽध्यायः
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य च 56.
सुखोदयस्तथा नन्दः शिवः क्षेमक एव च 56.
गोमेदश्चैव चन्द्रश्च नारदो दुन्दुभिस्तथा 56.
अनुतप्ता शिखी चैव विपाशा त्रिदिवा क्रमुः 56.
वपुष्मान्शाल्मलस्येशस्तत्सुता वर्षनामकाः 56.
वैद्युतो मानसश्चैव सप्रभशाचपि सप्तमः 56.
क्रौञ्चः ककुद्मान्ह्येते वै गिरयः सरितस्त्विमाः 56.
विधृतिः सप्तमी तासां स्मृताः पापप्रशान्तिदाः 56.
उद्भिदो वेणुमांश्चैव द्वैरथो लम्बनो धृतिः 56.
विद्रुमो हेमशैलश्च द्युतिमान्पुष्पवांस्तथा 56.
धूतपापा शिवा चैव पवित्रा सन्मतिस्तथा 56.
क्रौञ्चद्वीपे द्युतिमतः पुत्राः सप्त महात्मनः 56.
मुनिश्च दुन्दुभिश्चैव सप्तैते तत्सुता हर 56.
दिवावृत्पञ्चमश्चान्यो दुन्दुभिः पुण्डरीकवान् 56.
ख्यातिश्च पुण्डरीका च सप्तैता वर्षनिम्नगाः 56.
जलद्श्च कुमारश्च सुकुमारोरुणी बकः 56.