द्वीपात्तु द्विगुणो द्वीपः समुद्रश्च वृषध्वज 54.
चतुरशीतिसाहस्त्रैर्योजनैरस्य चोच्छ्रयः 54.
अधः षोडशसाहस्त्रः कर्णिकाकारसंस्थितः 54.
नीलः श्वेतश्च श्रृंगी च उत्तरे वर्षपर्वताः 54.
शङ्कराथ न तेष्वस्ति युगावस्था कथञ्चन 54.
नाभिः किंपुरुषश्चैव हरिवर्षमिला वृतः 54.
केतुमालो नृपस्तेभ्यस्तत्संज्ञान् खण्डकान्ददौ 54.
तत्पुत्रो भरतो नाम शालग्रामे स्थितो व्रती 54.
इन्द्रद्युम्नश्च तत्पुत्रः परमेष्ठी ततः स्मृतः 54.
सुतस्तस्मादथै जातः प्रस्तारस्तत्सुतो विभुः 54.
नरो गयस्य तनयस्तत्पुत्रोभुद्विराडगतः 54.
त्वष्टा त्वष्टुश्च विरजा रजस्तस्याप्यभूत्सुतः 54.
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशवर्णनोपयोगिप्रियव्रतवंशनिरूपणं नाम चतुः पञ्चाशत्तमोऽध्यायः
मध्ये त्विलावृतो वर्षो भद्राश्वः पूर्वतोऽद्भुतः 55.
ततः किम्पुरुषो वर्षो मेरोर्दक्षिणतः स्मृतः 55.
पश्चिमे केतुमालश्च रम्यकः पश्चिमोत्तरे 55.
सिद्धिः स्वाभाविकी रुद्र ! वर्जयित्वा तु भारतम् 55.
नागद्वीपः कटाहश्च सिंहलो वारुणस्तथा 55.
पूर्वे किरातास्तस्यास्ते पश्चिमे यवनाः स्थिताः 55.
ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राश्चान्तरवासिनः 55.
विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः 55.
तापी पयोष्णी सरयूः कावेरी गोमती तथा 55.
केतुमाला ताम्रपर्णो चन्द्रभागा सरस्वती 55.
विदर्भा च शतद्रूश्च नद्यः पापहराः शुभाः 55.
पाञ्चालाः कुरवो मत्स्या यौधेयाः सपटच्चराः 55.
वृषध्वज ! जनाः पाद्माः सूतमागधचेदयः 55.
कलिंगवंगपुण्ड्रांगा वैदर्भा मूलकास्तथा 55.
पुलन्दाश्मकजीमूतनयराष्ट्रनिवासिनः 55.
अम्बष्ठद्रविडा लाटाः काम्बोजाः स्त्रीमुखाः शकाः 55.
स्त्रीराज्याः सैन्धवा म्लेच्छा नास्ति का यवनास्तथा 55.