मुकुन्दकु(न) न्दौ नीलश्च शङ्खश्चैवापरो निधिः 53.
पद्मेन लक्षितश्चैव सात्त्विको जायते नरः 53.
रुप्यादि कुर्य्याद्दद्यात्तु यतिदैवादियज्वनाम् 53.
निधी पद्ममहापद्मौ सात्त्विकौ पुरुषौ स्मृतौ 53.
दद्याच्छ्रुताय मैत्रीं च याति नित्यं च राजभिः 53.
मकरः कच्छपश्चैव तामसौ तु निधी स्मृतौ 53.
निधानमुर्व्यां कुरुते निधिः सोप्येकपूरुषः 53.
भुक्तभोगो गायनेभ्यो दद्याद्वेश्यादिकासु च 53.
स्तुतः प्रीतो भवति वै बहुभार्य्या भवन्ति च 53.
नीलेन चाङ्कितः सत्त्वतेजसा संयुतो भवेत् 53.
त्रिपू(पौ) रुषो निधिश्चैव आम्रारामादि कारयेत् 53.
कदन्नभुक्परिजनो न च शोभनवस्त्रधृक् 53.
मिश्रावलोकनान्मिश्रस्वभावफलदायिनः हरिर्भुवनकोशादि यथोवाच तथा वदे ॥ 53.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नवनिधिवर्णनं नाम त्रिपंचाशत्तमोऽध्यायः
अग्नीध्रश्चाग्निबाहुश्च वपुष्मान्ध्युतिमांस्तथा 54.
ज्योतिष्मान्दशमो जातः पुत्रा ह्येते प्रियव्रतात् 54.
जातिस्मरा महाभागा नैराज्याय मनो दधुः 54.
योजनानां प्रमाणेन पञ्चाशत्कोटिराप्लुता 54.
जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलश्चापरो हर 54.
एते द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः 54.
द्वीपात्तु द्विगुणो द्वीपः समुद्रश्च वृषध्वज 54.
चतुरशीतिसाहस्त्रैर्योजनैरस्य चोच्छ्रयः 54.
अधः षोडशसाहस्त्रः कर्णिकाकारसंस्थितः 54.
नीलः श्वेतश्च श्रृंगी च उत्तरे वर्षपर्वताः 54.
शङ्कराथ न तेष्वस्ति युगावस्था कथञ्चन 54.
नाभिः किंपुरुषश्चैव हरिवर्षमिला वृतः 54.
केतुमालो नृपस्तेभ्यस्तत्संज्ञान् खण्डकान्ददौ 54.
तत्पुत्रो भरतो नाम शालग्रामे स्थितो व्रती 54.
इन्द्रद्युम्नश्च तत्पुत्रः परमेष्ठी ततः स्मृतः 54.
सुतस्तस्मादथै जातः प्रस्तारस्तत्सुतो विभुः 54.