चीरवासा द्विजोऽरण्ये चरेद्ब्रह्महणव्रतम् 52.
अवगूहेत्स्त्रियं तप्तां दीप्तां कार्ष्णायसीं कृताम् 52.
चान्द्रायणानि वा कुर्य्यात्पञ्च चत्वारि वा पुनः 52.
स तत्पापापनोदार्थं तस्यैव व्रतमाचरेत् 52.
सर्वस्वदानं विधिवत्सर्वपापविशोधनम् 52.
पुण्यक्षेत्रे गयादौ च गमनं पापनाशनम् 52.
ब्राह्मणान् भोजयित्वा तु सर्वपापैः प्रमुच्यते 52.
यमाय धर्मराजाय मृत्यवे चान्तकाय च 52.
प्रत्येकं तिलसंयुक्तान्दद्यात्सप्त जलाञ्जलीन् 52.
ब्रह्मचर्य्यमधः शय्यामुपवासं द्विजार्चनम् 52.
पष्ठ्यामुपोषितो देवं शुक्लपक्षे समाहितः 52.
एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् 52.
तपो जपस्तीर्थसेवा देवब्राह्मणपूजनम् 52.
यः सर्वपापयुक्तोऽपि पुण्यतीर्थेषु मानवः 52.
ब्रह्मघ्नं वा कृतघ्नं वा महापातकदूषितम् 52.
पतिव्रता तु या नारी भर्त्तुः शुश्रूषणोत्सुका 52.
तथा रामस्य सुभगा सीता त्रैलोक्यविश्रुता 52.
फल्गुतीर्थादिषु स्नातः सर्वाचारफलं लभेत् 52.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे प्रायश्चित्तनिरूपणं नाम द्विपञ्चाशत्तमोऽध्यायः
एवं ब्रह्माब्रवीच्छ्रुत्वा हरेरष्टनिधींस्तथा 53.
मुकुन्दकु(न) न्दौ नीलश्च शङ्खश्चैवापरो निधिः 53.
पद्मेन लक्षितश्चैव सात्त्विको जायते नरः 53.
रुप्यादि कुर्य्याद्दद्यात्तु यतिदैवादियज्वनाम् 53.
निधी पद्ममहापद्मौ सात्त्विकौ पुरुषौ स्मृतौ 53.
दद्याच्छ्रुताय मैत्रीं च याति नित्यं च राजभिः 53.
मकरः कच्छपश्चैव तामसौ तु निधी स्मृतौ 53.
निधानमुर्व्यां कुरुते निधिः सोप्येकपूरुषः 53.
भुक्तभोगो गायनेभ्यो दद्याद्वेश्यादिकासु च 53.
स्तुतः प्रीतो भवति वै बहुभार्य्या भवन्ति च 53.
नीलेन चाङ्कितः सत्त्वतेजसा संयुतो भवेत् 53.