ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् 51.
निर्दिश्य धर्मराजाय विप्रेभ्यो मुच्यते भयात् 51.
सर्वपापविनिर्मुक्तो नरो भवति निश्चितम् 51.
ब्राह्मणान्पूजयेद्दत्नाद्भोजयेद्योषितः सुरान् 51.
ब्रह्मवर्चसकामस्तु ब्राह्मणान्ब्रह्मनिश्चयात् 51.
कर्मणां सिद्धिकामस्तु पूजयेद्वै विनायकम् 51.
मुमुक्षुः सर्वसंसारात्प्रयत्नेनार्चयेद्धरिम् 51.
वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः 51.
भूमिदः सर्वमाप्नोति दीर्घमायुर्हिरण्यदः 51.
वासोदश्चान्द्रसालोक्यमश्विसालोक्यमश्वदः 51.
यानशय्याप्रदो भार्य्यामैश्वर्य्यमभयप्रदः 51.
वेदवित्सु ददज्ज्ञानं स्वर्गलोके महीयते 51.
इन्धनानां प्रदानेन दीप्ताग्निर्जायते नरः 51.
ददानो रोगरहितः सुखी दीर्घायुरेव च 51.
तीक्ष्णातपं च तरतिच्छत्रोपानत्प्रदो नरः 51.
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता 51.
संक्रान्त्यादिषु कालेषु दत्तं भवति चाक्षयम् 51.
दानधर्मात्परो धर्मो भूतानां नेह विद्यते 51.
दीयमानं तु यो मोहाद्गोविप्राग्निसुरेषु च 51.
यस्तु दुर्भिक्षवेलायामन्नाद्यं न प्रयच्छति 51.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे दानधर्मनिरूपणं नामैकपञ्चाशत्तमोऽध्यायः
अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं द्विजाः 52.
पञ्च पातकिनस्त्वेते तत्संयोगी च पञ्चमः 52.
ब्रह्महा द्वादशाब्दानि कुटीं कृत्वा वने वसेत् 52.
ज्वलन्तं वा विशेदग्निं जलं वा प्रविशेत्स्वयम् 52.
दत्त्वा चान्नं च विदुषे ब्रह्महत्यां व्यपोहति 52.
सर्वस्वं वा वेदविदे ब्राह्मणाय प्रदापयेत् 52.
शुद्धे त्रिषवणस्नातस्त्रिरात्रोपोषितो द्विजः 52.
कपालमोचने स्नात्वा वाराणस्यां तथैव च 52.
पयो घृतं वा गोमूत्रं तस्मात्पापात्प्रमुच्यते 52.