नाशयन्त्याशु पापानि देवानामर्चनं तथा 50.
भुङ्क्ते स याति नरकान्त्सूंकरेष्वेव जायते 50.
अशौचं चैव संसर्गाच्छुद्धिः संसर्गवर्जनात् 50.
मृतेषु वाथ जातेषु ब्राह्मणानां द्विजोत्तम 50.
त्रिरात्रमौपनयनाद्दशरात्रमतः परम् 50.
शुध्येन्मासेन वै शूद्रो यतीनां नास्ति पातकम् 50.
अथातः संप्रवक्ष्यामि दानधर्ममनुत्तमम् 51.
दानं तु कथितं तज्ज्ञैर्भुक्तिमुक्तिफलप्रदम् 51.
अध्यापनं याजनं च वृत्तमाहुः प्रतिग्रहम् 51.
यद्दीयते तु पात्रेभ्यस्तद्दानं परिकीर्त्तितम् 51.
अहन्यहनि यत्किञ्चिद्दीयतेऽनुपकारिणे 51.
यत्तु पापोपशान्त्यै च दीयते विदुषां करे 51.
अपत्यविजयैश्वर्य्यस्वर्गार्थं यत्प्रदीयते 51.
ईश्वरप्रीणनार्थाय ब्रह्मावित्सुप्रदीयते 51.
इक्षुभिः सन्ततां भूमिं यवगोधूमशालिनीम् 51.
भूमिदानात्परं दानं न भूतं न भविष्यति 51.
दद्यादहरहस्तास्तु श्रद्धया ब्रह्मचारिणे 51.
वैशाख्यां पौर्णमास्यां तु ब्राह्मणान्सप्त पञ्च च 51.
गन्धादिभिः समभ्यर्च्य वाचयेद्वा स्वयं वदेत् 51.
यावज्जीवं कृतं पापं तत्क्षणादेव नश्यति 51.
ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् 51.
निर्दिश्य धर्मराजाय विप्रेभ्यो मुच्यते भयात् 51.
सर्वपापविनिर्मुक्तो नरो भवति निश्चितम् 51.
ब्राह्मणान्पूजयेद्दत्नाद्भोजयेद्योषितः सुरान् 51.
ब्रह्मवर्चसकामस्तु ब्राह्मणान्ब्रह्मनिश्चयात् 51.
कर्मणां सिद्धिकामस्तु पूजयेद्वै विनायकम् 51.
मुमुक्षुः सर्वसंसारात्प्रयत्नेनार्चयेद्धरिम् 51.
वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः 51.
भूमिदः सर्वमाप्नोति दीर्घमायुर्हिरण्यदः 51.
वासोदश्चान्द्रसालोक्यमश्विसालोक्यमश्वदः 51.