ब्राह्मं तु मार्जनं मन्त्रैः कुशैः सोदकबिन्दुभिः 50.
गवां हि रजसा प्रोक्तं वायव्यं स्नानमुत्तमम् 50.
वारुणं चावगाहं च मानसं त्वात्मवेदनम् 50.
आत्मतीर्थमिति ख्यातं सेवितं ब्रह्मवादिभिः 50.
अपामार्गं च विल्वं च करवीरं च धावने 50.
प्रक्षाल्य भुक्त्वा तज्जह्याच्छुचौ देशे समाहितः 50.
आचम्य विधिवन्नित्यं पुनराचम्य वाग्यतः 50.16 आपोहिष्ठाव्याहृतिभिः सावित्र्या वारुणैः शुभैः 50.
जप्त्वा जलाञ्जलिं दद्याद्भारस्करं प्रति तन्मनाः 50.
प्राणायामं ततः कृत्वा ध्यायेत्सन्ध्यामिति श्रुतिः 50.
ऐश्वरी केवला शक्तिस्तत्त्वत्रयसमुद्भवा 50.
प्राङ्मुखः सततं विप्रः सन्ध्योपासनमाचरेत् 50.
यदन्यत्कुरुते किञ्चिन्न तस्य फलभाग्भवेत् 50.
उपास्य विधिवत्सन्ध्यां प्राप्ताः पूर्वपरां गतिम् 50.
विहाय सन्ध्याप्रणतिं स याति नरकायुतम् 50.
उपासितो भवेत्तेन देवो योगतनुः परः 50.
गायत्त्रीं वै जपेद्विद्वान्प्राङ्मुखः प्रयतः शुचिः 50.
मन्त्रैस्तु विविधैः सारैः ऋग्यजुःसामसंज्ञितैः 50.
कुर्वीत प्रणतिं भूमौ मूर्धानमभिमन्त्रितः 50.
निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे 50.
भूर्भुवः स्वस्त्वमोङ्कारः सर्वो रुद्रः सनातनः 50.
प्रातः काले च मध्याह्ने नमस्कुर्य्याद्दिवाकरम् 50.
प्रज्वाल्य वह्निं विधिवज्जुहुयाज्जातवेदसम् 50.
प्राप्यानुज्ञां विशेषेण जुहुयाद्वा यथाविधि 50.
दैवतानि नमस्कुर्य्यादुपहारान्निवेदयेत् 50.
वेदाभ्यासं ततः कुर्य्यात्प्रयत्नाच्छक्तितो द्विजः 50.
अवेक्षेत च शास्त्राणि धर्मादीनि द्विजोत्तमः 50.
उपयादीश्वरं चैव योगक्षेमप्रसिद्धये 50.
ततो मध्याह्नसमये स्नानार्थं मृदमाहरेत् 50.
नदीषु देवखातेषु तडागेषु सरः सु च 50.
पञ्च पिण्डाननुद्धृत्य स्नानं दुष्यन्ति नित्यशः 50.