धर्मं रुद्रं मनुं चैव सनकं च सनातनम् 5.
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् 5.
अग्निष्वात्तांश्च कव्यादानाज्यपांश्च सुकालिनः 5.
चतुरो मूर्त्तियुक्तांश्च अंगुष्ठाद्दक्षमीश्वरम् 5.
तस्यां तु जनयामास दक्षो दुहितरः शुभाः 5.
रुद्र पुत्रा बभूवुर्हि असंख्याता महाबलाः 5.
भृगोर्धाताविधातारौ जनयामास सा शुभा 5.
तस्यां वै जनयामास बलोन्मादौ हरिः स्वयम् 5.
धाताविधात्रोस्ते भार्य्ये तयोर्जातौ सुतावुभौ 5.
पत्नी मरीचेः सम्भूतिः पौर्णमासमसूयत 5.
स्मृतेश्चांङ्गिरसः पुत्राः प्रसूताः कन्यकास्तथा 5.
अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान् 5.
प्रीत्यां पुलस्त्यभार्य्यायां दत्तोलिस्तत्सुतोऽभवत् 5.
क्षमा तु सुषुवे भार्य्या पुलहस्य प्रजापतेः 5.
षष्टिर्यानि सहस्त्राणि ऋषीणामूर्द्धरेतसाम् 5.
ऊर्ज्जायां तु वसिष्टस्य सप्ताजायन्त वै सुताः 5.
सुतपाः शुक्र इत्येते सर्वे सप्तर्षयोऽमताः 5.
तस्मात्स्वाहा सुताँल्लेभे त्रीनुदारौजसो हर ! 5.
पितृभ्यश्च स्वधा जज्ञे मेनां वैतरणीं तथा 5.
मैनाकं जनयामास गौरीं पूर्वं तु या सती 5.
आत्मानमेव कृतवान्प्रजापाल्यं मनुं हर ! 5.
स्वायम्भुवो मनुर्देवः पत्नीत्वे जगृहे विभुः 5.
प्रियव्रतोत्तानपादौ प्रसूत्याकूतिसंज्ञिते 5.
प्रसूतिं चैव दक्षाय दवहूतिं च कर्दमे 5.
अभवन्द्वादश सुता यामो नाम महाबलाः 5.
श्रद्धा चला धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा 5.
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीप्रभुः 5.
सन्नतिश्चानसूया च ऊर्ज्जा स्वाहा स्वधा तथा 5.
पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस्तथा 5.
ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः 5.