इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वर्णआश्रमधर्मनिरूपणं नामैकोनपञ्चाशत्तमोध्यायः
अहन्यहनि यः कुर्य्यात्क्रियां स ज्ञानमाप्नुयात् 50.
चिन्तयेद्धृदि पद्मस्थमानन्दमजरं हरिम् 50.
स्त्रायान्नदीषु शुद्धासु शौचं कृत्वा यथाविधि 50.
तस्मात्सर्वप्रयत्नेन प्रातः स्नानं समाचरेत् 50.
सुखात्सुप्तस्य सततं लालाद्याः संस्त्रवन्ति हि 50.
अलक्ष्मीः कालकर्णो च दुः स्वप्नं दुर्विचिन्तितम् 50.
न च स्नानं विना पुंसां प्राशस्त्यं कर्म संस्मृतम् 50.
अशक्तावशिरस्कं तु स्नानमस्य विधीयते 50.
ब्राह्ममाग्नेयमुद्दिष्टं वायव्यं दिव्यमेव च 50.
ब्राह्मं तु मार्जनं मन्त्रैः कुशैः सोदकबिन्दुभिः 50.
गवां हि रजसा प्रोक्तं वायव्यं स्नानमुत्तमम् 50.
वारुणं चावगाहं च मानसं त्वात्मवेदनम् 50.
आत्मतीर्थमिति ख्यातं सेवितं ब्रह्मवादिभिः 50.
अपामार्गं च विल्वं च करवीरं च धावने 50.
प्रक्षाल्य भुक्त्वा तज्जह्याच्छुचौ देशे समाहितः 50.
आचम्य विधिवन्नित्यं पुनराचम्य वाग्यतः 50.16 आपोहिष्ठाव्याहृतिभिः सावित्र्या वारुणैः शुभैः 50.
जप्त्वा जलाञ्जलिं दद्याद्भारस्करं प्रति तन्मनाः 50.
प्राणायामं ततः कृत्वा ध्यायेत्सन्ध्यामिति श्रुतिः 50.
ऐश्वरी केवला शक्तिस्तत्त्वत्रयसमुद्भवा 50.
प्राङ्मुखः सततं विप्रः सन्ध्योपासनमाचरेत् 50.
यदन्यत्कुरुते किञ्चिन्न तस्य फलभाग्भवेत् 50.
उपास्य विधिवत्सन्ध्यां प्राप्ताः पूर्वपरां गतिम् 50.
विहाय सन्ध्याप्रणतिं स याति नरकायुतम् 50.
उपासितो भवेत्तेन देवो योगतनुः परः 50.
गायत्त्रीं वै जपेद्विद्वान्प्राङ्मुखः प्रयतः शुचिः 50.
मन्त्रैस्तु विविधैः सारैः ऋग्यजुःसामसंज्ञितैः 50.
कुर्वीत प्रणतिं भूमौ मूर्धानमभिमन्त्रितः 50.
निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे 50.
भूर्भुवः स्वस्त्वमोङ्कारः सर्वो रुद्रः सनातनः 50.