भूमौ मूलफलाशित्वं स्वाध्यायस्तप एव च 49.
तपस्तप्यति योऽरण्ये यजेद्देवाञ्जुहोति च 49.
तपसा कर्शितोऽत्यर्थं यस्तु ध्यानपरो भवेत् 49.
योगाभ्यासरतो नित्यमारुरुक्षुर्जितेन्द्रियः 49.
यस्त्वात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः 49.
भैक्ष्यं श्रुतं च मौनित्वं तपो ध्यानं विशेषतः 49.
ज्ञानसन्यासिनः केचिद्वेदसन्यासिनोऽपरे 49.
योगी च त्रिविधो ज्ञेयो भौतिकः क्षत्त्र एवं च 49.
प्रथमा भावना पूर्वे मोक्षे त्वक्ष(दुष्क) रभावना 49.
धर्मात्संजायते मोक्षो ह्यर्थात्कामोऽभिजायते 49.
ज्ञानं पूर्वं निवृत्तं स्यात्प्रवृत्तं चाग्निदेवकृत् 49.
आर्जवं चान्सूया च तीर्थानुसरणं तथा 49.
देवताभ्यर्चनं पूजा ब्राह्मणानां विशेषतः 49.
एते आश्रमिका धर्माश्चतुर्वर्ण्यं ब्रवीम्यतः 49.
स्थानमैन्द्रं क्षत्त्रियाणां संग्रामेष्वपलायिनाम् 49.
गान्धर्वं शूद्रजातीनां परिचारे च वर्त्तताम् 49.
स्मृतं तेषां तु यत्स्थानं तदेव वन (गुरु) वासिनाम् 49.
यतीनां यतचित्तानां न्यासिनामूर्द्ध्वरेतसाम् 49.
योगिनाममृतस्थानं व्योमाख्यं परमाक्षरम् 49.
मुक्तिरष्टाङ्गविज्ञानात्संक्षेपात्तद्वदे श्रृणु 49.
सत्यं भूतहितं वाक्यमस्तेयं स्वाग्रहं परम् 49.
नियमाः पञ्च सत्याद्या बाह्यमाभ्यन्तरं द्विधा 49.
स्वाध्यायः स्यान्मन्त्रजापः प्रणिधानं हरेर्यजिः 49.
मन्त्रध्यान तो गर्भो विपरीतो ह्यगर्भकः 49.
कुम्भको निश्चलत्वाच्च रेचनाद्रेचकस्त्रिधा 49.
षट्त्रिंशन्मात्रिकः श्रेष्ठः प्रत्याहारश्च रोधनम् 49.
अहं ब्रह्मेत्यवस्थानं समाधिर्ब्रह्मणः स्थितिः 49.
ब्रह्म विज्ञानमानन्दः स तत्त्वमसि केवलम् 49.
अहम्मनोबुद्धिमहदहङ्कारादिवर्जितम् 49.
नित्यं शुद्धं बुद्धमुक्तं सत्यमानन्दमद्वयम् इति ध्यायन्विमुच्येत् ब्राह्मणो भवबन्धनात् ।। 49.