न गर्भे स्थापयेद्देवं न गर्भं तु परित्यजेत् 48.
तिलस्य तुषमात्रं तु उत्तरं किञ्चिदानयेत् 48.
देवस्य त्वा सवितुर्वः षड्भ्यो वै विन्यसेद्गुरुः 48.
षड्भ्यो विन्यस्य सिद्धार्थं ध्रुवार्थैरभिमन्त्रयेत् 48.
दीपधूपसुगन्धैश्च नैवेद्यैश्च प्रपूजयेत् 48.
पात्रं वस्त्रयुगं छत्रं तथा दिव्याङ्गुलीयकम् 48.
चतुर्थी जुहुयात्पश्चाद्यजमानः समाहितः 48.
निष्क्रम्य बहिराचार्य्यो दिक्पालानां बलिं हरेत् 48.
यागान्ते कपिलां दद्यादाचार्य्याय च चामरम् 48.
व्यजनं ग्रामवस्त्रादीन्सोपस्कारं सुमण्डपम् यजमानो विमुक्तः स्यात्स्थापकस्य प्रसादतः ।। 48.
सर्गादिकृद्धरिश्चैव पूज्यः स्वायम्भुवादिभिः 49.
यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहः 49.
दानमध्ययनं यज्ञो धर्मः क्षत्त्रियवैश्ययोः 49.
शुश्रूषैव द्विजातीनां शूद्राणां धर्मसाधनम् 49.
भिक्षाचर्य्याथ शुश्रूषा गुरोः स्वाध्याय एव च 49.
सर्वेषामाश्रमाणां च द्वैविध्यं तु चतुर्विधम् 49.
योऽधीत्य विधिवद्वेदान् गृहस्थाश्रममाव्रजेत् 49.
अग्नयोऽतिथिशुश्रूषा यज्ञो दानं सुरार्चनम् 49.
उदासीनः साधकश्च गृहस्थो द्विविधो भवेत् 49.
ऋणानि त्रीण्यपाकृत्य त्यक्त्वा भार्य्याधनादिकम् 49.
भूमौ मूलफलाशित्वं स्वाध्यायस्तप एव च 49.
तपस्तप्यति योऽरण्ये यजेद्देवाञ्जुहोति च 49.
तपसा कर्शितोऽत्यर्थं यस्तु ध्यानपरो भवेत् 49.
योगाभ्यासरतो नित्यमारुरुक्षुर्जितेन्द्रियः 49.
यस्त्वात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः 49.
भैक्ष्यं श्रुतं च मौनित्वं तपो ध्यानं विशेषतः 49.
ज्ञानसन्यासिनः केचिद्वेदसन्यासिनोऽपरे 49.
योगी च त्रिविधो ज्ञेयो भौतिकः क्षत्त्र एवं च 49.
प्रथमा भावना पूर्वे मोक्षे त्वक्ष(दुष्क) रभावना 49.
धर्मात्संजायते मोक्षो ह्यर्थात्कामोऽभिजायते 49.