आचार्य्याः केचिदिच्छन्ति जातकर्माद्यनन्तरम् 48.
आचार्य्योऽथ निरीक्ष्यापि नीराज्यमभिमन्त्रितम् 48.
पञ्चपञ्चाहुतीर्हुत्वा आज्येन तदनन्तरम् 48.
स्वशास्त्रविहितैर्मन्त्रैः प्रणवेनाथ होमयेत् 48.
एवमुत्पादितो वह्निः सर्वकर्मसु सिद्धिदः 48.
इन्द्रादीनां स्वमन्त्रैश्च तथाहुतिशतं शतम् 48.
स्वामाहुतिमथाज्येषु होता तत्कलशे न्यसेत् 48.
आत्मानमेकतः कृत्वा ततः पूर्णां प्रदापयेत् 48.
भूतानां चैव देवानां नागानां च प्रयोगतः 48.
आज्यं तयोः सहकारि तत्प्रधानं यदङ्क(क्ष)योः 48.
ज्येष्ठसाम च भारुण्डं तन्नयामीति पश्चिमे 48.
हुत्वा सहस्त्रमेकैकं देवं शिरसि कल्पयेत् 48.
शिरः स्थानेषु जुहुयादाविशेच्चाप्यनुक्रमात् 48.
स्वशास्त्रविहितैर्वापि गायत्त्र्या वाथ ते द्विजाः 48.
एवं होमविधिं कृत्वा न्यसेन्मन्त्रांस्तु देशिकः 48.
अग्न आयाहि जङ्घे द्वे शन्नोदेवीति जानुनी 48.
दीर्घायुष्ट्वाय हृदये श्रीश्चते गलके न्यसेत् 48.
मूर्द्धाभव तथा मूर्ध्नि आलग्नाद्धोममाचरेत् 48.
वेदपुण्याहशब्देन प्रासादानां प्रदक्षिणम् 48.
दिक्पालान्सह रत्नैश्च धातूनौषधयस्तथा 48.
न गर्भे स्थापयेद्देवं न गर्भं तु परित्यजेत् 48.
तिलस्य तुषमात्रं तु उत्तरं किञ्चिदानयेत् 48.
देवस्य त्वा सवितुर्वः षड्भ्यो वै विन्यसेद्गुरुः 48.
षड्भ्यो विन्यस्य सिद्धार्थं ध्रुवार्थैरभिमन्त्रयेत् 48.
दीपधूपसुगन्धैश्च नैवेद्यैश्च प्रपूजयेत् 48.
पात्रं वस्त्रयुगं छत्रं तथा दिव्याङ्गुलीयकम् 48.
चतुर्थी जुहुयात्पश्चाद्यजमानः समाहितः 48.
निष्क्रम्य बहिराचार्य्यो दिक्पालानां बलिं हरेत् 48.
यागान्ते कपिलां दद्यादाचार्य्याय च चामरम् 48.
व्यजनं ग्रामवस्त्रादीन्सोपस्कारं सुमण्डपम् यजमानो विमुक्तः स्यात्स्थापकस्य प्रसादतः ।। 48.