इमम्मेगङ्गेमन्त्रेण नेत्रयोः शीतलक्रिया 48.
बिल्वोदुम्बरमश्वत्थं वटं पालाशमेव च 48.
पञ्चगव्यं स्नापयेच्च सहदेव्यादि भिस्ततः 48.
कुमारी च गुडूची च सिंही व्याघ्री तथैव च 48.
याः फलिनीति मन्त्रेण फलस्नानं विधीयते 48.
कलशेषु च विन्यस्य उत्तरादिष्वनुक्रमात् 48.
समुद्रांश्चैव विन्यस्य चतुरश्चतुरो दिशः 48.
आप्यायस्व दधिक्राव्णो याऔषधीरितीति च 48.
समुद्राख्यैश्चतुर्भिश्च स्नापयेत्कलशैः पुनः 48.
अभिषेकाय कुम्भेषु तत्तत्तीर्थानि विन्यसेत् 48.
याओषधीति मन्त्रेण कुम्भं चैवाभिमन्त्रयेत् 48.
अभिषिच्य समुद्रैश्च त्वर्घ्यं दद्यात्ततः पुनः 48.
स्वशास्त्रविहितैः प्राप्तैर्युवंवस्त्रेति वस्त्रकम् 48.
शम्भवायेति मन्त्रेण शय्यायां विनिवेशयेत् 48.
स्थित्वा चैव परे तत्त्वे मन्त्रन्यासं तु कारयेत् 48.
वस्त्रेणाच्छादयित्वा तु पूजनीयः स्वभावतः 48.
अथ प्रणवसंयुक्तं वस्त्रयुग्मेन वेष्टितम् 48.
स्थित्वा कुण्डसमीपेऽथ अग्नेः स्थापनमाचरेत् 48.
श्रीसूक्तं पावमान्यं च वासदाम्यसवाजिनम् 48.
रुद्रं पुरुषसूक्तं च श्लोकाध्यायं च शुक्रियम् 48.
वेदव्रतं वामदेव्यं ज्येष्ठसाम रथन्तरम् 48.
अथर्वशिरसं चैव कुम्भसूक्तमथर्वणः 48.
कुण्डं चास्त्रेण संप्रोक्ष्य आचार्य्यस्तु विशेषतः 48.
जातवेदसमानीय अग्रतस्तं निवेशयेत् 48.
अमृतीकृत्य तं पश्चान्मन्त्रैः सर्वैश्च देशिकः 48.
वैष्णवेन तु योगेन परं तेजस्तु निः क्षिपेत् 48.
साधारणेन मन्त्रेण स्वसूत्रविहितेन वा 48.
ब्रह्मविष्णुहरेशानाः पूज्याः साधारणेन तु 48.
दर्भतोयेन संस्पृष्टो मन्त्रहीनोऽपि शुध्यति 48.
विततैर्वेष्टितो वह्निः स्वयं सान्निध्यमाव्रजेत् 48.