देवस्तु कलशे पूज्यो वर्द्धन्या वस्त्रमुत्तमम् 48.
वर्द्धनीधारया सिञ्चन्नग्रतो धारयेत्ततः 48.
घटं चावाह्य वायव्यां गणानां त्वेति सद्गणम् 48.
वास्तोष्पतीति मन्त्रेण वास्तुदोषोपशान्तये 48.
पठेदिति च विद्याश्च कुर्य्यादालम्भनं बुधः 48.
ऋत्विग्भिः सार्द्धमाचार्यः स्नानपीठे गुरुस्तदा 48.
कृत्वा ब्रह्मरथे देवं प्रतिष्ठन्ति ततो द्विजाः 48.
भद्रंकर्णेत्यथ स्नात्वा सूत्रवल्कलजेन तु 48.
मधुसर्पिः समायुक्तं कांस्ये वा ताम्रभाजने 48.
अग्निर्ज्योतीति मन्त्रेण नेत्रोद्वाटं तु कारयेत् 48.
इमम्मेगङ्गेमन्त्रेण नेत्रयोः शीतलक्रिया 48.
बिल्वोदुम्बरमश्वत्थं वटं पालाशमेव च 48.
पञ्चगव्यं स्नापयेच्च सहदेव्यादि भिस्ततः 48.
कुमारी च गुडूची च सिंही व्याघ्री तथैव च 48.
याः फलिनीति मन्त्रेण फलस्नानं विधीयते 48.
कलशेषु च विन्यस्य उत्तरादिष्वनुक्रमात् 48.
समुद्रांश्चैव विन्यस्य चतुरश्चतुरो दिशः 48.
आप्यायस्व दधिक्राव्णो याऔषधीरितीति च 48.
समुद्राख्यैश्चतुर्भिश्च स्नापयेत्कलशैः पुनः 48.
अभिषेकाय कुम्भेषु तत्तत्तीर्थानि विन्यसेत् 48.
याओषधीति मन्त्रेण कुम्भं चैवाभिमन्त्रयेत् 48.
अभिषिच्य समुद्रैश्च त्वर्घ्यं दद्यात्ततः पुनः 48.
स्वशास्त्रविहितैः प्राप्तैर्युवंवस्त्रेति वस्त्रकम् 48.
शम्भवायेति मन्त्रेण शय्यायां विनिवेशयेत् 48.
स्थित्वा चैव परे तत्त्वे मन्त्रन्यासं तु कारयेत् 48.
वस्त्रेणाच्छादयित्वा तु पूजनीयः स्वभावतः 48.
अथ प्रणवसंयुक्तं वस्त्रयुग्मेन वेष्टितम् 48.
स्थित्वा कुण्डसमीपेऽथ अग्नेः स्थापनमाचरेत् 48.
श्रीसूक्तं पावमान्यं च वासदाम्यसवाजिनम् 48.
रुद्रं पुरुषसूक्तं च श्लोकाध्यायं च शुक्रियम् 48.