ऋत्विग्भिः सह चाचार्य्यं वरयेन्मध्यदेशगम् 48.
पञ्चभिर्बहुभिर्वाथ कुर्य्यात्पाद्यार्घ्यमेव च 48.
मन्त्रन्यासं गुरुः कृत्वा ततः कर्म समारभेत् 48.
कुर्य्याद्द्वादशहस्तं वा स्तम्भैः षोडशभिर्युतम् 48.
नदीसङ्गमतीरात्थां वालुकां तत्र दापयेत् 48.
पूर्वादितः समारभ्य कर्त्तव्यं कुण्डपञ्चकम् 48.
शान्तिकर्मिधानेन सर्वकामार्थसिद्धये 48.
ऐशान्यां केचिदिच्छन्ति उपलिप्यावनिं शुभाम् 48.
न्यग्रोधोदुम्बराश्वत्थबैल्वपालाशखादिराः 48.
निखनेद्धस्तमेकैकं चत्वारश्चतुरो दिशः 48.
पश्चिमे गोपतिर्नाम सुरशार्दूलमुत्तरे 48.
ईषेत्वेतिहि मन्त्रेण दक्षिणस्यां द्वितीयकम् 48.
शन्नोदेवीति मन्त्रेण उत्तरस्यां चतुर्थकम् 48.
याम्यां वै कृष्णरूपा तु नैर्ऋत्या श्यामला (धूसरा) भवेत् 48.
उत्तरे रक्तवर्णा तु शुक्लैशी च पताकिका 48.
आग्निं संसुप्तिमन्त्रेण यमोनागेति दक्षिणे 48.
वात इत्यभिषिच्याथ आप्यायस्वेति चोत्तरे 48.
कलशौ तु ततो द्वौ द्वौ निवेश्यौ तोरणान्तिके 48.
पुष्पैर्वितानैर्बहुलैरादिवर्णाभिमन्त्रिताः 48.
त्रातारमिन्द्रभन्त्रेण अग्निर्मूर्द्धेति चापरे 48.
किञ्चेदधातु आचत्वाऽभित्वादेति च सप्तमी 48.
होमद्रव्याणि वायव्ये कुर्य्यात्सोपस्कराणि च 48.
आलोकनेन द्रव्याणि शुद्धिं यान्ति न संशयः 48.
अस्त्रं चैव समस्तानां न्यासोऽयं सर्वकामिकः 48.
विष्टरेण स्पृशेद्दुव्यान्यागमण्डपसंभृतान् 48.
शाक्रीं दिशमथारभ्य यावदीशानगोचरम् 48.
गन्धाद्यैरर्घ्यपात्रे च मन्त्रग्रामं न्यसेद्गुरुः 48.
प्रतिष्ठा यस्य देवस्य तदाख्यं कलशं न्यसेत् 48.
कलशं वर्द्धनीं चैव ग्रहान्वास्तोष्पतिं तथा 48.
सूत्रग्रीवं रत्नगर्भं वस्त्रयुग्मेन वेष्टितम् 48.