शतश्रृङ्गसमायुक्तो मेरुः प्रासाद उत्तमः 47.
गठनाकारमानानां भिन्नाभिन्ना भवन्ति ते 47.
प्रतिच्छन्दकभेदेन प्रासादाः सम्भवन्ति ते 47.
देवतानां विशेषाय प्रासादा बहवः स्मृताः 47.
तानेव देवतानां च पूर्वमानेन कारयेत् 47.
चन्द्रशालान्विता कार्य्या भेरीशिखरसंयुता 47.
नाट्यशाला च कर्त्तव्या द्वारदेशसमाश्रया 47.
द्वारपालाश्च कर्त्तव्या मुख्या गत्वा पृथक् पृथक् 47.
प्रावृता जगती कार्य्या फलपुष्पजलान्विता वासुदेवः सर्वदेवः सर्वभाक् तद्गृहादिकृत् ।। 47.
प्रतिष्ठां सर्वदेवानां संक्षेपेण वदाम्यहम् 48.
ऋत्विग्भिः सह चाचार्य्यं वरयेन्मध्यदेशगम् 48.
पञ्चभिर्बहुभिर्वाथ कुर्य्यात्पाद्यार्घ्यमेव च 48.
मन्त्रन्यासं गुरुः कृत्वा ततः कर्म समारभेत् 48.
कुर्य्याद्द्वादशहस्तं वा स्तम्भैः षोडशभिर्युतम् 48.
नदीसङ्गमतीरात्थां वालुकां तत्र दापयेत् 48.
पूर्वादितः समारभ्य कर्त्तव्यं कुण्डपञ्चकम् 48.
शान्तिकर्मिधानेन सर्वकामार्थसिद्धये 48.
ऐशान्यां केचिदिच्छन्ति उपलिप्यावनिं शुभाम् 48.
न्यग्रोधोदुम्बराश्वत्थबैल्वपालाशखादिराः 48.
निखनेद्धस्तमेकैकं चत्वारश्चतुरो दिशः 48.
पश्चिमे गोपतिर्नाम सुरशार्दूलमुत्तरे 48.
ईषेत्वेतिहि मन्त्रेण दक्षिणस्यां द्वितीयकम् 48.
शन्नोदेवीति मन्त्रेण उत्तरस्यां चतुर्थकम् 48.
याम्यां वै कृष्णरूपा तु नैर्ऋत्या श्यामला (धूसरा) भवेत् 48.
उत्तरे रक्तवर्णा तु शुक्लैशी च पताकिका 48.
आग्निं संसुप्तिमन्त्रेण यमोनागेति दक्षिणे 48.
वात इत्यभिषिच्याथ आप्यायस्वेति चोत्तरे 48.
कलशौ तु ततो द्वौ द्वौ निवेश्यौ तोरणान्तिके 48.
पुष्पैर्वितानैर्बहुलैरादिवर्णाभिमन्त्रिताः 48.
त्रातारमिन्द्रभन्त्रेण अग्निर्मूर्द्धेति चापरे 48.