चतुर्दिक्षु तथा ज्ञेयो निर्गमस्तुः तथा बुधैः 47.
भागमेकं गृहीत्वा तु निर्गमं क्लपयेत्पुनः 47.
एतत्सामान्यमुद्दिष्टं प्रासादस्य हि लक्षणम् 47.
द्विगुणेन भवेद्रर्भः समन्ताच्छौनक ध्रुवम् 47.
द्विगुणं शिखरं प्रोक्तं जङ्घायाश्चैव शौनक 47.
निर्गमस्तु समाख्यातः शेषं पूर्ववदेव तु 47.
कराग्रं वेदवत्कृत्वा द्वारं भागाष्टमं भवेत् 47.
द्वारवत्पीठमध्ये तु शेषं शुषिरकं भवेत् 47.
तद्विस्तारसमा जङ्घा शिखरं द्विगुणं भवेत् 47.
मण्डपे मानमेतत्तु स्वरूपं चापरं वदे 47.
इत्थं कृतेन मानेन बाह्यभागविनिर्गतम् 47.
गर्भं तु द्विगुणं कुर्य्यान्नेम्या मानं भवेदिह 47.
प्रासादानां च वक्ष्यामि मानं योनिं च मानतः 47.
त्रिविष्टपं च पञ्चैते प्रासादाः सर्वयोनयः 47.
वृत्तो वृत्तायतश्चान्योऽष्टाश्रश्चेह च पञ्चमः 47.
सर्वप्रकृतिभूतेभ्यश्चत्वारिंशत्तथैव च 47.
भद्रकः सर्वता भद्रो रुचको नन्दनस्तथा 47.
चतुरश्राः समुद्भूता वैराजादिति गम्यताम् 47.
विमानं च तथा ब्रह्ममन्दिरं भवनं तथा 47.
वलयो दुन्दुभिः पद्मो महापद्मस्तथापरः 47.
गुवावृक्षस्तथान्यश्च वृत्ताः कैलाशसम्भवाः 47.
भूमुखो भूधरश्चैव श्रीजयः पृथिवीधरः 47.
वज्रं चक्रं तथान्यच्च मुष्टिकं वभ्रुसंज्ञितम् 47.
विजयो नामतः श्वेतस्त्रिविष्टिपसमुद्भवाः 47.
यत्र तत्र विधातव्यं संस्थानं मण्डपस्य तु 47.
पुत्रलाभः स्त्रियः पुष्टिस्त्रिकोणादिक्रमाद्भवेत् 47.
मण्डपः समसंख्याभिर्गुणितः सूत्रकस्तथा 47.
स्पर्धागवाक्षकोपेतो निर्गवाक्षोऽथ वा भवेत् 47.
भित्तेर्द्वैगुण्यतो वापि कर्त्तव्या मण्डपाः क्वचित् 47.
परिमाणविरोधेन रेखावैषम्यभूषिता 47.