हैयङ्गवीनस्य च भक्षणे वै सम्यक्स्मरेत्ताण्डवाख्यं च कृष्णम् । दध्यन्नभक्षे परमं पुराणं गोपालकृष्णं संस्मरेच्चैव नित्यम्
दुग्धान्नभोगे च तथैव काले सम्यक्स्मरेच्छ्रीनिवासं हरिं च । सुतैलसर्पिःषु विपक्वभक्षसंभोजने संस्मरेद्व्यङ्कटेशम्
द्राक्षासुजम्बूकदलीरसालनारिङ्गदाडिम्बफलानि चारु । स्मरेत्तु रम्भोत्तमनारिकेलधात्रीसुभोगे खलु बालकृष्णम्
सुपानकस्यैव च पानकाले सम्यक्स्मरेन्नारसिंहाख्यविष्णुम् । गङ्गामृतस्यैव च पानकाले गङ्गातातं संस्मरेद्विष्णुमेव
प्रयाणकाले संस्मरेत्तार्क्ष्यवाहं नारायणं निर्गुणं विश्वमूर्तिम् । पुत्रादीनां चुंबने चैव काले सुवेणुहस्तं संस्मरेत्कृष्णमेव
सुखङ्गकाले स्वस्त्रियश्चैव नित्यं गोपि कुचद्वन्द्वविलासिनं हरिम् । तांबूलकाले संस्मरैच्चैव नित्यं प्रद्युम्नाख्यं वासुदेवं हरिं च
शय्याकाले संस्मरेच्चैव नित्यं संकर्षणाख्यं विष्णुरूपं हरिं च । निद्राकाले संस्मरेत्पद्मनामं कथाकाले व्यासरूपं हरिं च
सुगानकाले संस्मरेद्वेणुगीतं हरिं हरिं प्रवदेत्सर्वदैव । श्रीमत्तुलस्याश्छेदने चैव काले श्रीरामरामेति च संस्मरेत्तु
पुष्पादीनां छेदने चैव काले सम्यक् स्मरेदेत्कपिलाख्यं हरिं च । प्रदक्षिणे गारुडान्तर्गतं च हरिं स्मरेत्सर्वदा वै खगेन्द्र
प्रणामकाले देवदेवस्य विष्णोः शेषान्तस्थं संस्मरेच्चैव विष्णुम् । सुनीतिकाले संस्मरेन्नारसिंहं नारायणं संस्मरेत्सर्वदापि
पूर्तिर्यदा क्रियते कर्मणां च सम्यक्स्मरेद्वासुदेवं हरिं च । एवं कृतानि कर्माणि हरिप्रीतिकराणि च
सम्यक्प्रकुर्वन्नेतानि पुष्करो हरिवल्लभः
एतस्मादेव पक्षीश कर्म यत्समुदाहृतं पुष्कराख्यानमतुलं शृणोति श्रद्धयान्वितः । हरिप्रीतिकरे धर्मे प्रीतियुक्तो भवेत्सदा