हरि प्रीतिकरान्धर्मान्वक्ष्ये शृणु खगाधिप । प्रातः काले समुत्थाय स्मरेन्नारायणं हरिम्
तुलसीवन्दनं कुर्याच्छ्रीविष्णुं संस्मरेत्खग । विण्मूत्रोत्सर्गकाले च ह्यपानात्मककेशवम्
त्रिविक्रमं शौचकाले गङ्गापानकरं हरिम् । दन्तधावनकाले तु चन्द्रान्तर्यामिणं हरिम्
मुखप्रक्षालने काले माधवं संस्मरेत्खग । गवां कण्डूयने चैव स्मरेद्गोवर्धनं हरिम्
सदा गोदोहने काले स्मरेद्गोपालवल्लभम् । अनन्तपुण्यार्जितजन्मकर्मणां सुपक्वकाले च खगेन्द्रसत्तम
स्पर्शे गवां चैव सदा नृणां वै भवत्यतो नात्र विचार्यमस्ति । यस्मिन् गृहे नास्ति सदोत्तमा च गौर्यङ्गणे श्रीतुलसी च नास्ति
यस्मिन् गृहे देवमहोत्सवश्च यस्मिन् गृहे श्रवणं नास्ति विष्णोः । तत्संसर्गाद्याति दुःखादिकं च तस्य स्पर्शो नैव कार्यः कदापि
गोस्पर्शनविहीनस्य गोदोहनमजानतः । गोपोषणविहीनस्य प्राहुर्जन्म निरर्थकम्
गोग्रासमप्रदातुश्च गोपुष्टिं चाप्यकुर्वतः । गतिर्नास्त्येव नास्त्येव ग्रामचाण्डालवत्स्मृतः
वत्स्यस्य स्तनपाने च बालकृष्णं तु संस्मरेत् । दधिनिर्मन्थने चैव मन्थाधारं स्मरेद्धरिम्
मृत्तिकास्नान काले तु वराहं संस्मरेद्धरिम् । पुण्ड्राणां धारणे चैव केशवादींश्च द्वादश
मुद्राणां धारणे चैव शङ्खचक्रगदाधरम् । पद्मं नारायणीं मुद्रां क्रुद्धोल्कादींश्च संस्मरेत्
श्रीरामसंस्मृतिं चैव संध्याकाले खगोत्तम । अच्युतानन्तगोविन्दाञ्छ्राद्धकाले च संस्मरेत्
प्राणादिकपञ्चहोमेचानिरूद्धादींश्च संस्मरेत् । अन्नाद्यर्पणकाले तु वासुदेवं च संस्मरेत्
अपोशनस्य काले तु वायोरन्तर्गतं हरिम् । वस्त्रधारणकाले तु उपेन्द्रं संस्मरेद्धरिम्
यज्ञोपवीतस्य च धारणे तु नारायणं वामनाख्यं स्मरेत्तु । आर्तिक्यकाले च तथैव विष्णोः सम्यक्स्मरेत्पर्शुरामाख्यविष्णुम्
अपोशनेवैश्वदेवस्य काले तदन्यहोमादिषु भस्मधारणे । स्मरेत्तु भक्त्या परमादरेण नारायणं जामदग्न्याख्यरामम्
त्रिवारतीर्थग्रहणस्य काले कृष्णं रामं व्यासदेवं क्रमेण । शङ्खोदकस्योद्धरणे चैव काले मुकुन्दरूपं संस्मरेत्सर्वदैव
ग्रासेग्रासे स्मरणं चैव कार्यं गोविन्दसंज्ञस्य विशुद्धमन्नम् । एकैकभक्ष्यग्रहणस्य काले सम्यक्स्मरेदच्युतं वै खगेन्द्र
शाकादीनां भक्षणे चैव काले धन्वन्तरिं स्मरेच्चैव नित्यम् । तथा परान्नस्य च भोगकाले स्मरेच्च सम्यक्पाण्डुरङ्गं च विष्णुम्
हैयङ्गवीनस्य च भक्षणे वै सम्यक्स्मरेत्ताण्डवाख्यं च कृष्णम् । दध्यन्नभक्षे परमं पुराणं गोपालकृष्णं संस्मरेच्चैव नित्यम्
दुग्धान्नभोगे च तथैव काले सम्यक्स्मरेच्छ्रीनिवासं हरिं च । सुतैलसर्पिःषु विपक्वभक्षसंभोजने संस्मरेद्व्यङ्कटेशम्
द्राक्षासुजम्बूकदलीरसालनारिङ्गदाडिम्बफलानि चारु । स्मरेत्तु रम्भोत्तमनारिकेलधात्रीसुभोगे खलु बालकृष्णम्
सुपानकस्यैव च पानकाले सम्यक्स्मरेन्नारसिंहाख्यविष्णुम् । गङ्गामृतस्यैव च पानकाले गङ्गातातं संस्मरेद्विष्णुमेव
प्रयाणकाले संस्मरेत्तार्क्ष्यवाहं नारायणं निर्गुणं विश्वमूर्तिम् । पुत्रादीनां चुंबने चैव काले सुवेणुहस्तं संस्मरेत्कृष्णमेव
सुखङ्गकाले स्वस्त्रियश्चैव नित्यं गोपि कुचद्वन्द्वविलासिनं हरिम् । तांबूलकाले संस्मरैच्चैव नित्यं प्रद्युम्नाख्यं वासुदेवं हरिं च
शय्याकाले संस्मरेच्चैव नित्यं संकर्षणाख्यं विष्णुरूपं हरिं च । निद्राकाले संस्मरेत्पद्मनामं कथाकाले व्यासरूपं हरिं च
सुगानकाले संस्मरेद्वेणुगीतं हरिं हरिं प्रवदेत्सर्वदैव । श्रीमत्तुलस्याश्छेदने चैव काले श्रीरामरामेति च संस्मरेत्तु
पुष्पादीनां छेदने चैव काले सम्यक् स्मरेदेत्कपिलाख्यं हरिं च । प्रदक्षिणे गारुडान्तर्गतं च हरिं स्मरेत्सर्वदा वै खगेन्द्र
प्रणामकाले देवदेवस्य विष्णोः शेषान्तस्थं संस्मरेच्चैव विष्णुम् । सुनीतिकाले संस्मरेन्नारसिंहं नारायणं संस्मरेत्सर्वदापि