तद्वैष्णवैस्त्याज्यमेवं सदैव वस्त्रं दग्धं सन्धिजं चैव जन्यम्
नोच्चाश्च ते हरिभक्तेर्विहीनास्तेषां संगो नैव कार्यः सदापि । पुराणसंपर्कविसर्जिनं च पुराणतालं च पुराणवस्त्रम्
सुजीर्णकन्थाजिनमेखलं च यज्ञोपवीतं च कलिप्रियं च । प्रियं गृहं चोर्णवितानकं च समित्कुशैः पूरितं कुत्सितं च
सर्वं चेत्कलिभार्याप्रियं च नैव प्रियं शार्ङ्गपाणेः कदाचित् । कांस्ये सुपक्वं यावनालस्य चान्नं तुषः पिण्याकं तुम्बबिल्वे पलाण्डुः
दीर्घं तक्रं स्वादुहीनं कटूष्णमेते सर्वे कलिभार्याप्रियाश्च । सुदुर्मुखं निन्दनं चार्यजानां सतोवमत्यात्मजानां प्रसह्य
सुपीडनं सर्वदा भर्तृवर्गे गृहस्थितव्रीहिवस्त्रादिचौर्यात् । प्रकीर्णभूतान्मूर्धजान्संदधानं करैर्युतं देवकलिप्रियं च
इत्यादि सर्वं कलिभार्याप्रियञ्च सुनिर्मलं प्रकरोत्येव सर्वम् । अतश्च सा श्यामलेति स्वसंज्ञामवाप सा देवकी संबभूव
युधिष्ठिरस्यैव बभूव पत्नीसंभाविता तत्र च देवकी सा । चन्द्रस्य भार्या रोहिणी वै तदेयमश्विन्यादिभ्योऽह्यधिका सर्वदैव
रोणीं धृत्वा रोहति योग्यस्थानं तस्माच्च सा रोहिणीति प्रसिद्धा । आदित्यभार्या नाम संज्ञा खगेन्द्र ज्ञेया सा नारायणस्य स्वरूपा
संजानातीत्येव संज्ञामवाप संज्ञेति लोके सूर्य भार्या खगेन्द्र । ब्रह्माण्डस्य ह्यभिमानी तु देवो विराडिति ह्यभिधामाप तेन
गङ्गादिषट्कं सममेव नित्यं परस्परं नोत्तमं नाधमं च । प्रधानाग्नेः पाविकान्यैव गङ्गा सदा शुभा नात्र विचार्यमस्ति
आसां ज्ञानत्पुण्यमाप्नोति नित्यं सदा हरिः प्रीयते केशवोलम् । गङ्गादिभ्यो ह्यवराह्यग्निजाया स्वाहासंज्ञाधिगुणा नैव हीना
स्वाहाकारो मन्त्ररूपाभिमानी स्वाहेति संज्ञामाप सदैव वीन्द्र । अग्नेर्भार्यातो बुद्धिमान् संबभूव ब्रह्माभिमानी चन्द्रपुत्रो बुधश्च
बुद्ध्याहरद्वै राष्ट्रजातं च सर्वं धृतं त्वतो बुधसंज्ञामवाप । एवं चाभूदभिमन्युर्महात्मा सुभद्राया जठरे ह्यर्जुनाच्च
कृष्णस्य चन्द्रस्य यमस्य चांशैः स संयुतस्त्वश्विनोर्वै हरस्य । स्वाहाधमश्चन्द्रपुत्रो बुधस्तु पादारविन्दे विष्णुदेवस्य भक्तः
नामात्मिका त्वश्विभार्या उषा नाम प्रकीर्तिता । बुधाधमा सा विज्ञेया स्वाहा दशगुणाधमा
नकुलस्य भार्या मागधस्यैव पुत्री शल्यात्मजा सहदेवस्य भार्या । उभे ह्येते अश्विभार्या ह्युषापि उपासते षड्गुणं विष्णुमाद्यम् । अतोऽप्युषासंज्ञका सा खगेन्द्र अनन्तराञ्छृणु वक्ष्ये महात्मन्
ततः शक्तिः पृथिव्यात्मा शनैश्चरति सर्वदा । अतः शनैश्चरो नाम उषायाश्च दशाधमाः
कर्मात्मा पुष्करो ज्ञेयः शनेरथ यमो मतः । नयाभिमानी पुरुषः किञ्चिन्नम्रो दशावरः
हरिप्रीतिकरो नित्यं पुष्करे क्रीडते यतः । अतस्तु पुष्कलो नाम लोके स परिकीर्तितः
हरि प्रीतिकरान्धर्मान्वक्ष्ये शृणु खगाधिप । प्रातः काले समुत्थाय स्मरेन्नारायणं हरिम्
तुलसीवन्दनं कुर्याच्छ्रीविष्णुं संस्मरेत्खग । विण्मूत्रोत्सर्गकाले च ह्यपानात्मककेशवम्
त्रिविक्रमं शौचकाले गङ्गापानकरं हरिम् । दन्तधावनकाले तु चन्द्रान्तर्यामिणं हरिम्
मुखप्रक्षालने काले माधवं संस्मरेत्खग । गवां कण्डूयने चैव स्मरेद्गोवर्धनं हरिम्
सदा गोदोहने काले स्मरेद्गोपालवल्लभम् । अनन्तपुण्यार्जितजन्मकर्मणां सुपक्वकाले च खगेन्द्रसत्तम
स्पर्शे गवां चैव सदा नृणां वै भवत्यतो नात्र विचार्यमस्ति । यस्मिन् गृहे नास्ति सदोत्तमा च गौर्यङ्गणे श्रीतुलसी च नास्ति
यस्मिन् गृहे देवमहोत्सवश्च यस्मिन् गृहे श्रवणं नास्ति विष्णोः । तत्संसर्गाद्याति दुःखादिकं च तस्य स्पर्शो नैव कार्यः कदापि
गोस्पर्शनविहीनस्य गोदोहनमजानतः । गोपोषणविहीनस्य प्राहुर्जन्म निरर्थकम्
गोग्रासमप्रदातुश्च गोपुष्टिं चाप्यकुर्वतः । गतिर्नास्त्येव नास्त्येव ग्रामचाण्डालवत्स्मृतः
वत्स्यस्य स्तनपाने च बालकृष्णं तु संस्मरेत् । दधिनिर्मन्थने चैव मन्थाधारं स्मरेद्धरिम्