संताड्यमाने स्तंभसूत्रस्थदेवी पलायिता कुत्र मे संवदस्व । विवाहकाले पूजयित्वा च सम्यक्चण्डालदेवीं भक्तवश्यां च तस्याः ॥ ३,२८.
तद्भक्तवर्यैः शूर्पमध्ये च तीरे संसेवयित्वा विद्यमानो गृहे स्वे । यदा तदा यमदूतैश्च बद्ध्वा संताड्यमानो यममार्गे महद्भिः ॥ ३,२८.
चऊलदेवी क्व पलायिताभूत्सुमूढबुद्धे विष्णुपादं भजस्व । ज्वरादिभिः पीड्यमाने स्वपुत्रे गृहे स्थितं ब्रह्मदेवं च सम्यक् ॥ ३,२८.
धूर्पैर्दीपैर्भक्ष्यभोज्यैश्च पुष्पैः पूजां कृत्वा विद्यमानश्च गेहे । यदा तदा यमदूतैश्च बद्ध्वा संताड्यमाने वेणुपाशादिभिश्च ॥ ३,२८.
स ब्रह्मदेवः क्व पलायितोभूत्सुमूढबुद्धे विष्णुपादं भजस्व । सन्तानार्थं बृहतीं पूजयित्वा गलेन बद्ध्वा बृहतीं वै फलं च ॥ ३,२८.
संतिष्ठमाने यमदूतैश्च बद्ध्वा संताड्यमाने बृहतीकण्टकैश्च । तदा देवी बृहती मूढबुद्धे पलायिता कुत्र मे तद्वद त्वम् ॥ ३,२८.
भजस्व मूढ परदैवतं च नारायणं तारकं सर्वदुःखात् । सुक्षुद्रदेवेषु मतिं च मा कुरु न च शृणु त्वं फल्गुवाक्यं तथैव ॥ ३,२८.
सुक्षुद्रदेवान् भिन्दिपाले निधाय विसर्जयित्वा दूरदेशे महात्मन् । संधार्य त्वं स्वकुलाचारधर्मं संपातने नरकं हेतुभूतम् ॥ ३,२८.
पुनीहि गात्रं सर्वदा मूढबुद्धे मन्त्राष्टकैर्जन्मतीर्थे पवित्रे । हृदि स्थितां मौर्ख्यमुद्रां विहाय कृत्वा भूषां विष्णुमुद्राभिरग्र्याम् ॥ ३,२८.
सदा मूढो हरिवार्तां भजस्व ह्यायुर्गतं व्यर्थमेवं कुबुद्ध्या । सद्वैष्णवानां संगमो दुर्लभश्च क्षुब्धं ज्ञानं तारतम्यस्वरूपम् ॥ ३,२८.
हरिं गुरुं ह्यनुसृत्यैव सत्यं गतिं स्वकीयां तेन जानीहि मूढ । दग्ध्वा दुष्टां बुद्धिमेवं च मूढ सुबुद्धिरूपं मा भजस्वैव नित्यम् ॥ ३,२८.
मया सार्धं सद्गुरुं प्राप्य सम्यग्वैराग्यपूर्वं तत्त्वमात्रं विदित्वा । तेनैव मोक्षं प्राप्नुमो नार्जवैर्यत्तार्या विष्णोः संप्रसादाच्च लक्ष्म्याः ॥ ३,२८.
इत्याशयं मनसा सन्निधाय तथा चोक्तं भक्तवर्यो मदीयः । अतो भक्तः प्रवहेत्येव संज्ञामवाप वीन्द्र प्रकृतं तं शृणु त्वम् ॥ ३,२८.
श्रीगरुडमहापुराणम् २९ प्रवहानन्तरान्वक्ष्ये शृणु पक्षीन्द्रसत्तम । यो धर्मो ब्रह्मणः पुत्रो ह्यादिसृष्टौ त्वगुद्भवः
सज्जनान्सौम्यरूपेण धारणाद्धर्मनामकः । स एव सूर्यपुत्रोभूद्यमसंज्ञामवाप सः । पापिनां शिक्षकत्त्वात्स यम इत्युच्यते बुधैः
श्रीकृष्ण उवाच । प्रह्लादानन्तरं गङ्गा भार्या वै वरुणस्य च । प्रह्लादादधमा ज्ञेया महिम्ना वरुणाधिका
स्वरूपादधमा ज्ञेया नात्र कार्या विचारणा । ज्ञानस्वरूपदं विष्णुं यमो जानाति सर्वदा
अतो गङ्गेति सा ज्ञेया सर्वदा लोकपावनी । भक्त्या विष्णुपदीत्येव कीर्तिता नात्र संशयः
या पूर्वकाले यज्ञलिङ्गस्य विष्णोः साक्षाद्धरेर्विक्रमतः खगेन्द्र । वामस्य पादस्य नखाग्रतश्च निर्भिद्य चोर्ध्वाण्डकटाहखण्डम्
तदुदरमतिवेगात्सम्प्रविश्यावहन्तीं जगदघततिहन्तुः पादकिञ्जल्कशुद्धाम् । निखिलमलनिहन्त्रीं दर्शनात्स्पर्शनाच्च सकृदवगहनाद्वा भक्तिदां विष्णुपादे । शशिकरवरगौरां मीननेत्रां सुपूज्यां स्मरति हरिपदोत्थां मोक्षमेति क्रमेण
इन्द्रोपि वायुकरमर्दितवायुकूटबिन्दुं च प्राश्य शिरसि ह्यसहिष्णुमानः । भागीरथी हरिपदाङ्कमिति स्म नित्यं जानन्महापरमभागवतप्रधानः । भक्त्या च खिन्नहृदयः परमादरेण धृत्वा स्वमूर्ध्नि परमो ह्यशिवः शिवोऽभूत्
भागीरथ्याश्च चत्वारि रूपाण्यासन्खगेश्वर । महाभिषग्जनेन्द्रस्य भार्या तु ह्यभिषेचनी
द्वितीयेनैव रूपेण गङ्गा भार्या च शन्तनोः । सुषेणा वै सुषेणस्य भार्या सा वानरी स्मृता
मण्डूकभार्या गङ्गा तु सैव मण्डूकिनी स्मृता । एवं चत्वारि रूपाणि गङ्गाया इति कीर्तितम्
आदित्याच्चैव गङ्गातः पर्जन्यः समुदाहृतः । प्रवर्षति सुवैराग्यं ह्यतः पर्जन्यनामकम्
शरंवराय पञ्चजन्याच्च पञ्च हित्वा जग्ध्वा गर्वकं षट्क्रमेण । स्वबाणस्य स्वहृदि संस्थितस्य भजेत्सदा नैव भक्तिं विषं च
लिङ्गं पुष्टं नैव कार्यं सदैव लिङ्गं पुष्टं कार्यमेवं सदापि । योनौ सक्तिर्नैव कार्या सदापि योनौ मुक्तेऽसंगतो याति मुक्तिम्
वैराग्यमेवं प्रकारोत्येव नित्यमतः पर्जन्यस्त्वन्तकः पक्षिवर्य । एतावता शरभाख्यो महात्मा स चान्तरो स तु पर्जन्य एव
शश्वत्केशा यस्य गात्रे खगेन्द्र प्रभास्यन्ते शरभाख्यो पयोतः । यमस्य भार्या श्यामला या खगेन्द्र यस्मात्सदा कलिभार्यापिया च
मत्वा सम्यक्मानसं या करोति ह्यतश्च सा श्यामलासंज्ञकाभूत् । मलं वक्ष्ये हरिभक्तेर्विरोधी सुलोहपात्रे सन्निधानं च तस्य