यदा तदा यमदूतैश्च सम्यक्संताड्यमाने यममार्गे च मूढः । भीमः स वै कुत्र पलायितोभूदतो मूलं विष्णुपादं भजस्व ॥ ३,२८.
महादेवं पूजयित्वा च सम्यक् हरेत्युक्त्वा स्वगृहे विद्यमाने । यदा गृहं दह्यते वह्निना तु तदा हरः कुत्र पलायितोभूत् ॥ ३,२८.
शाकंभरीदिवसे सर्वमेव शाकंभरी सा च देवी महात्मन् । पलायिता कुत्र मे त्वं वदस्व कुलालदेवं पूजयित्वा च भक्त्या ॥ ३,२८.
कार्पासं वै तेन दत्तं गृहीत्वा संतिष्ठमाने यमदूतैश्च सम्यक् । संहन्यमानस्तीक्षणधारैः कुठारैः कुलालदेवं च सुदंष्ट्रनेत्रम् । विहाय वै कुत्र पलायितोभून्न ज्ञायतेऽन्वेषणाच्चापि केन ॥ ३,२८.
यदा पञ्चम्यां मृन्मयीं शेषमूर्तिं संपूज्य भक्त्या विद्यमाने स्वगेहे । तदा बद्ध्वा यमदूताश्च सम्यक्संनह्यमाने नागपाशैश्च बद्ध्वा ॥ ३,२८.
स्वभक्तवर्यं प्रविहाय नागः पलायितः कुत्र वै संवद त्वम् । दूर्वाङ्कुरैर्मोदकैः पूजयित्वा विनायकं पञ्चखाद्यैस्तथैव ॥ ३,२८.
संतिष्ठंमाने यमदूतैश्च सम्यक्संताड्यमाने तप्तदण्डैश्च मूढ । दन्तं विहायैव च विघ्नराजः पलायितः कुत्र मे तं वदत्वम् ॥ ३,२८.
विवाहकाले पिष्टदेवीं सुभक्त्या संपूजयित्वा विद्यमानो गृहे स्वे । यदा तदा यमदूतैश्च बद्ध्वा संपीड्यमानो यममार्गे स मूढः ॥ ३,२८.
विष्ठादेवी पीड्यमानं च भक्तं विहाय सा कुत्र पलायिताभूत् । विवाहकाले रजकस्य गेहं गत्वा सम्यक्प्रार्थयित्वा च मूढः ॥ ३,२८.
यस्तंभसूत्रं कलशे परीत्य पूजां कृत्वा विद्यमानो गृहे स्वे । यदा तदा यमदूतश्च सम्यक्तं स्तंभसूत्रं तस्य मुखे निधाय ॥ ३,२८.
संताड्यमाने स्तंभसूत्रस्थदेवी पलायिता कुत्र मे संवदस्व । विवाहकाले पूजयित्वा च सम्यक्चण्डालदेवीं भक्तवश्यां च तस्याः ॥ ३,२८.
तद्भक्तवर्यैः शूर्पमध्ये च तीरे संसेवयित्वा विद्यमानो गृहे स्वे । यदा तदा यमदूतैश्च बद्ध्वा संताड्यमानो यममार्गे महद्भिः ॥ ३,२८.
चऊलदेवी क्व पलायिताभूत्सुमूढबुद्धे विष्णुपादं भजस्व । ज्वरादिभिः पीड्यमाने स्वपुत्रे गृहे स्थितं ब्रह्मदेवं च सम्यक् ॥ ३,२८.
धूर्पैर्दीपैर्भक्ष्यभोज्यैश्च पुष्पैः पूजां कृत्वा विद्यमानश्च गेहे । यदा तदा यमदूतैश्च बद्ध्वा संताड्यमाने वेणुपाशादिभिश्च ॥ ३,२८.
स ब्रह्मदेवः क्व पलायितोभूत्सुमूढबुद्धे विष्णुपादं भजस्व । सन्तानार्थं बृहतीं पूजयित्वा गलेन बद्ध्वा बृहतीं वै फलं च ॥ ३,२८.
संतिष्ठमाने यमदूतैश्च बद्ध्वा संताड्यमाने बृहतीकण्टकैश्च । तदा देवी बृहती मूढबुद्धे पलायिता कुत्र मे तद्वद त्वम् ॥ ३,२८.
भजस्व मूढ परदैवतं च नारायणं तारकं सर्वदुःखात् । सुक्षुद्रदेवेषु मतिं च मा कुरु न च शृणु त्वं फल्गुवाक्यं तथैव ॥ ३,२८.
सुक्षुद्रदेवान् भिन्दिपाले निधाय विसर्जयित्वा दूरदेशे महात्मन् । संधार्य त्वं स्वकुलाचारधर्मं संपातने नरकं हेतुभूतम् ॥ ३,२८.
पुनीहि गात्रं सर्वदा मूढबुद्धे मन्त्राष्टकैर्जन्मतीर्थे पवित्रे । हृदि स्थितां मौर्ख्यमुद्रां विहाय कृत्वा भूषां विष्णुमुद्राभिरग्र्याम् ॥ ३,२८.
सदा मूढो हरिवार्तां भजस्व ह्यायुर्गतं व्यर्थमेवं कुबुद्ध्या । सद्वैष्णवानां संगमो दुर्लभश्च क्षुब्धं ज्ञानं तारतम्यस्वरूपम् ॥ ३,२८.
हरिं गुरुं ह्यनुसृत्यैव सत्यं गतिं स्वकीयां तेन जानीहि मूढ । दग्ध्वा दुष्टां बुद्धिमेवं च मूढ सुबुद्धिरूपं मा भजस्वैव नित्यम् ॥ ३,२८.
मया सार्धं सद्गुरुं प्राप्य सम्यग्वैराग्यपूर्वं तत्त्वमात्रं विदित्वा । तेनैव मोक्षं प्राप्नुमो नार्जवैर्यत्तार्या विष्णोः संप्रसादाच्च लक्ष्म्याः ॥ ३,२८.
इत्याशयं मनसा सन्निधाय तथा चोक्तं भक्तवर्यो मदीयः । अतो भक्तः प्रवहेत्येव संज्ञामवाप वीन्द्र प्रकृतं तं शृणु त्वम् ॥ ३,२८.
श्रीगरुडमहापुराणम् २९ प्रवहानन्तरान्वक्ष्ये शृणु पक्षीन्द्रसत्तम । यो धर्मो ब्रह्मणः पुत्रो ह्यादिसृष्टौ त्वगुद्भवः
सज्जनान्सौम्यरूपेण धारणाद्धर्मनामकः । स एव सूर्यपुत्रोभूद्यमसंज्ञामवाप सः । पापिनां शिक्षकत्त्वात्स यम इत्युच्यते बुधैः
श्रीकृष्ण उवाच । प्रह्लादानन्तरं गङ्गा भार्या वै वरुणस्य च । प्रह्लादादधमा ज्ञेया महिम्ना वरुणाधिका
स्वरूपादधमा ज्ञेया नात्र कार्या विचारणा । ज्ञानस्वरूपदं विष्णुं यमो जानाति सर्वदा
अतो गङ्गेति सा ज्ञेया सर्वदा लोकपावनी । भक्त्या विष्णुपदीत्येव कीर्तिता नात्र संशयः
या पूर्वकाले यज्ञलिङ्गस्य विष्णोः साक्षाद्धरेर्विक्रमतः खगेन्द्र । वामस्य पादस्य नखाग्रतश्च निर्भिद्य चोर्ध्वाण्डकटाहखण्डम्
तदुदरमतिवेगात्सम्प्रविश्यावहन्तीं जगदघततिहन्तुः पादकिञ्जल्कशुद्धाम् । निखिलमलनिहन्त्रीं दर्शनात्स्पर्शनाच्च सकृदवगहनाद्वा भक्तिदां विष्णुपादे । शशिकरवरगौरां मीननेत्रां सुपूज्यां स्मरति हरिपदोत्थां मोक्षमेति क्रमेण