हरिं विनान्यं न भजस्व नित्यं सा रेणुका त्वां तु न पालयिष्यति । अदृष्टनामा हरिरेवं हि नित्यं फलप्रदो यदि न स्यात्खगेन्द्र ॥ ३,२८.
जुगुप्सितां श्रुत्यनुक्तां च देवीं पतिद्रुहां सर्वदा सेवयित्वा । तस्याः प्रसादात्कुष्ठभगन्दराद्यैर्भुक्त्वा दुःखं संयमिनीं प्रयाहि ॥ ३,२८.
तदा कुदेवी कुत्र गता वदस्व मे ह्यतः पते त्वं न भजस्व देवीम् । पते भज त्वं ब्राह्मणान्वैष्णवांश्च संसारदुःखात्तारन्सुष्ठुरूपान् ॥ ३,२८.
सेवादिकं प्रविहायैव स्वच्छं मायादेव्या भजनात्किं वदस्व । ज्येष्ठाष्टम्यां ज्येष्ठदेवीं ह्यलक्ष्मीं लक्ष्मीति बुद्ध्या पूजयित्वा च सम्यक् ॥ ३,२८.
तस्याः सूत्रं गलबद्धं च कृत्वा नानादुःखं ह्यनुभूयाः पते त्वम् । यदा पते यमदूतैश्च पाशैर्बद्ध्वा च सम्यक् ताड्यमानैः कशाभिः ॥ ३,२८.
तदा ह्यलक्ष्मीः कुत्र पलायतेऽसावतो मूलं विष्णुपादं भजस्व । पते भज त्वं सर्वदा वायुतत्त्वं न चाश्रयेस्त्वं सूक्ष्मस्कन्दं च मूढ ॥ ३,२८.
तद्वत्तं त्वं नवनीतं च भक्त्या तदुच्छिष्टं भक्षयित्वा पते हि । तस्याश्च सूत्रं गलबद्धं च कृत्वा इहैव दुःखान्यनुभूयाः पते त्वम् ॥ ३,२८.
यदा पते यमदूतैश्च पाशैर्बद्ध्वा च सम्यक् ताड्यमानः कशाभिः । तदा स्कन्दः कुत्र पलायतेऽसावतो मूलं विष्णुपादं भजस्व ॥ ३,२८.
दीपस्तंभं दापयित्वा पते त्वं सूत्रं च बद्ध्वा स्वगले च भक्त्या । तदा बद्ध्वा यमदूतैश्च पाशैर्दीपस्तंभैस्ताड्यमानस्तु सम्यक् ॥ ३,२८.
दीपस्तंभः कुत्र पलायितोभूदतो मूलं विष्णुपादं भजस्व । लक्ष्मीदिने पूजयित्वा च लक्ष्मीं सूत्रं तस्याः स्वगले धारय त्वम् ॥ ३,२८.
यदा पते यमदूतैश्च पाशैर्बध्वा सम्यक् ताड्यमानः कशाभिः । तदा लक्ष्मीः कुत्र पलायतेऽसावतो मूलं विष्णुपादं भजस्व ॥ ३,२८.
विवाहमौंञ्जीदिवसे मूढबुद्धे जुगुप्सितान्धारयित्वा सुभक्त्या । वरारार्तिकं कांस्यपात्रे निधाय कृत्वार्तिक्यं उदउदैति शब्दम् ॥ ३,२८.
तथैव दष्ट्वा पिचुमन्दस्य पत्रं सुनर्तयित्वा परमादरेण । यदा तदा यमदूतैश्च पाशैर्बद्ध्वा बद्ध्वा ताड्यमानश्च सम्यक् ॥ ३,२८.
तव स्वामिन्कुलदेवो महात्मन्पलायितः कुत्र मे तद्वदस्व । स्वदेहानां पूजयित्वा च सम्यक्कण्ठाभरणैर्विधुराणां च केशैः ॥ ३,२८.
संतिष्ठमाने यमदूता बलिष्ठा संताड्यमाने मुसलैर्भिन्दिपालैः । यदा तदा कुत्र पलायिता सा केशैर्विहीना लंबकर्णं च कृत्वा ॥ ३,२८.
स्ववामहस्ते वेणुपात्रं निधाय दीपं धृत्वा सव्यहस्ते च मूढः । गृहेगृहे भैक्षचर्यां च कृत्वा संतिष्ठमाने स्वगृहं चैव देवी ॥ ३,२८.
यदा तदा यमदूतैश्च मूढ दीपैः सहस्रैर्दह्यमानश्च सम्यक् । निर्नासिका रेणुका मूढबुद्धे पलायिता कुत्र सा मे वदस्व ॥ ३,२८.
सदा मूढं खड्गदेवं च भक्त्या तं भक्तवत्पूजयित्वा च सम्यक् । तैः सार्धं त्वं श्वानवद्गर्जयित्वा संतिष्ठमाने स्वगृहे चैव नित्यम् ॥ ३,२८.
यदा तदा यमदूतैश्च सम्यक्संताड्यमानस्तत्र शब्दं प्रकुर्वन् । संतिष्ठमाने भक्तवर्यं विहाय तदा देवः कुत्र पलायितोभूत् ॥ ३,२८.
स पार्थक्याद्भीमसेनप्रतीकं पञ्चामृतैः पूजयित्वा च सम्यक् । सुव्यञ्जने चान्नकौपीनमेव दत्त्वा मूढस्तिष्ठमाने स्वगेहे ॥ ३,२८.
यदा तदा यमदूतैश्च सम्यक्संताड्यमाने यममार्गे च मूढः । भीमः स वै कुत्र पलायितोभूदतो मूलं विष्णुपादं भजस्व ॥ ३,२८.
महादेवं पूजयित्वा च सम्यक् हरेत्युक्त्वा स्वगृहे विद्यमाने । यदा गृहं दह्यते वह्निना तु तदा हरः कुत्र पलायितोभूत् ॥ ३,२८.
शाकंभरीदिवसे सर्वमेव शाकंभरी सा च देवी महात्मन् । पलायिता कुत्र मे त्वं वदस्व कुलालदेवं पूजयित्वा च भक्त्या ॥ ३,२८.
कार्पासं वै तेन दत्तं गृहीत्वा संतिष्ठमाने यमदूतैश्च सम्यक् । संहन्यमानस्तीक्षणधारैः कुठारैः कुलालदेवं च सुदंष्ट्रनेत्रम् । विहाय वै कुत्र पलायितोभून्न ज्ञायतेऽन्वेषणाच्चापि केन ॥ ३,२८.
यदा पञ्चम्यां मृन्मयीं शेषमूर्तिं संपूज्य भक्त्या विद्यमाने स्वगेहे । तदा बद्ध्वा यमदूताश्च सम्यक्संनह्यमाने नागपाशैश्च बद्ध्वा ॥ ३,२८.
स्वभक्तवर्यं प्रविहाय नागः पलायितः कुत्र वै संवद त्वम् । दूर्वाङ्कुरैर्मोदकैः पूजयित्वा विनायकं पञ्चखाद्यैस्तथैव ॥ ३,२८.
संतिष्ठंमाने यमदूतैश्च सम्यक्संताड्यमाने तप्तदण्डैश्च मूढ । दन्तं विहायैव च विघ्नराजः पलायितः कुत्र मे तं वदत्वम् ॥ ३,२८.
विवाहकाले पिष्टदेवीं सुभक्त्या संपूजयित्वा विद्यमानो गृहे स्वे । यदा तदा यमदूतैश्च बद्ध्वा संपीड्यमानो यममार्गे स मूढः ॥ ३,२८.
विष्ठादेवी पीड्यमानं च भक्तं विहाय सा कुत्र पलायिताभूत् । विवाहकाले रजकस्य गेहं गत्वा सम्यक्प्रार्थयित्वा च मूढः ॥ ३,२८.
यस्तंभसूत्रं कलशे परीत्य पूजां कृत्वा विद्यमानो गृहे स्वे । यदा तदा यमदूतश्च सम्यक्तं स्तंभसूत्रं तस्य मुखे निधाय ॥ ३,२८.