जीवं यं वै प्रेरयन्ती कनिष्ठा काम्यं धर्मं कुरुते सर्वदापि । क्व ब्राह्मणाः क्व च विष्णुर्महात्मा क्व वै कथा क्व च यज्ञाः क्व गावः ॥ ३,२८.
क्व चाश्वत्थः क्व च स्नानं क्व शौचमेतत्सर्वं नाम नाशं करोति । मूढं पतिं रेणुकां पूजयस्व मायादेव्या दीपदानं कुरुष्व ॥ ३,२८.
सुभैरवादीन् भज मूढ त्वमन्ध हारिद्रचूर्णन्धारयेः सर्वदापि । ज्येष्ठाष्टम्यां ज्येष्ठदेवीं भजस्व भक्त्या सूत्रं गलबन्धं कुरुष्व ॥ ३,२८.
मरिगन्धाष्टम्यां मरिगन्धं भजस्व तथा सूत्रं स्वगले धारयस्व । दीपस्तंभं सुदिने पूजयस्व तत्सूत्रमेव स्वगले धारयस्व ॥ ३,२८.
महालक्ष्मीं चाद्यलक्ष्मीं च सम्यक्पूजां कुरु त्वं हि भक्त्याथ जीव । लक्ष्मीसूत्रं स्वागले धारयस्व महालक्ष्मीवान् भवसीत्युत्तरत्र ॥ ३,२८.
विहाय मौञ्जीदिवसे भाग्यकामः सुगुग्गुलान्धारयस्वातिभक्त्या । सुवासिनीः पूजयस्वाशु भक्त्या गन्धैः पुष्पैर्धूपदीपैः प्रतोष्य ॥ ३,२८.
वरार्तिक्यं कांस्यपात्रे निधाय कुर्वार्तिक्यं देवतादेवतानाम् । पिचुमन्दपत्राणि वितत्य भूमौ नमस्व त्वं क्षम्यतां चेति चोक्त्वा ॥ ३,२८.
महादेवीं पूजयस्वाद्य भक्त्या सद्वैष्णवानां मा ददस्वाप्यथान्नम् । सद्वैष्णवानां यदि वान्नं ददासि भाग्यं च ते पश्यतो नाशमेति ॥ ३,२८.
स्ववामहस्ते वेणुपात्रे निधाय दीपं धृत्वा सव्यहस्ते पते त्वम् । उत्तिष्ठ भोः पञ्चगृहेषु भिक्षां कुरुष्व सम्यक्प्रविहायैव लज्जाम् ॥ ३,२८.
आदौ गृहे षड्रसान्नं च कुत्वा जगद्गोप्यं भोजनं त्वं कुरुष्व । तच्छेषान्नं भोजयित्वा पते त्वं तासां च रे शरणं त्वं कुरुष्व ॥ ३,२८.
तासां हस्तं पुस्तके स्तापयित्वा त्राहीत्येवं तन्मुखैर्वाचयस्व । त्वं खड्गदेवं पूजयस्वाद्यभर्तस्तत्सेवकान्पूजयस्वाद्य सम्यक् ॥ ३,२८.
तैः सार्धं त्वं श्वानशब्दं कुरुष्व हरिद्राचूर्णं सर्वदा त्वं दधस्व । कुरुष्व त्वं भीमसेनस्य पूजां पञ्चामृतैः षोडशभिश्चोपचारैः ॥ ३,२८.
तत्कौपीनं रौप्यजं कारयित्वा समर्पयित्वा दीपमालां कुरुष्व । तद्दासवर्यान् भोजयस्वाद्य भक्त्या गर्जस्व त्वं भीमभीमेति सुष्ठु ॥ ३,२८.
तद्दासवर्यान्मोदयस्व स्ववस्त्रैर्मद्यैर्मांसद्रव्यजालेन नित्यम् । महादेवं पूजयस्वाद्य सम्यग्महारुद्रैरतिरुद्रैश्च सम्यक् ॥ ३,२८.
हरेत्युक्त्वा जङ्गमान्पूजयस्व शैवागमे निपुणाञ्छूद्रजातान् । शाकंभरीं विवशः सर्वशाकान्सुपाचयित्वा च गृहे गृहे च ॥ ३,२८.
ददस्व भक्त्या परमादरेण स्वलङ्कृत्य प्रास्तुवंस्तद्गुणांश्च । कुलादेवं पूजयस्वाद्य भक्त्या त्वं दृग्भ्यां वै तद्दिने शंभुबुद्ध्या ॥ ३,२८.
तद्भक्तवर्यान्पूजयस्वाद्य सम्यक्तत्पादमूले वन्दनं त्वं कुरुष्व । सुपञ्चम्यां मृन्मयीं शेषमूर्तिं पूजां कुरुष्व क्षीरलाजादिकैश्च ॥ ३,२८.
सुनागपाशं हि गले च बद्ध्वा तच्छेषान्नं भोजयेर्भोः पुनस्त्वम् । दिने चतुर्थे भोजयस्वाद्य भक्त्या नैवेद्यान्नं भोजयस्वाद्य सुष्ठु ॥ ३,२८.
इत्यादिकं प्रेरयित्वा पतिं सा जीवेन नष्टं प्रकरोत्येव नित्यम् । तस्याः संगाज्जीवरूपः पतिस्त्वां सम्यग्दष्टामिहलोके परत्र ॥ ३,२८.
तस्याः संगं सुविदूरं विसृज्य चेष्ट्वा समग्रं कुरु सर्वदा त्वम् । सुबुद्धिरूपा त्वीरयन्ती जगाद भजस्व विष्णुं परमादरेण ॥ ३,२८.
हरिं विनान्यं न भजस्व नित्यं सा रेणुका त्वां तु न पालयिष्यति । अदृष्टनामा हरिरेवं हि नित्यं फलप्रदो यदि न स्यात्खगेन्द्र ॥ ३,२८.
जुगुप्सितां श्रुत्यनुक्तां च देवीं पतिद्रुहां सर्वदा सेवयित्वा । तस्याः प्रसादात्कुष्ठभगन्दराद्यैर्भुक्त्वा दुःखं संयमिनीं प्रयाहि ॥ ३,२८.
तदा कुदेवी कुत्र गता वदस्व मे ह्यतः पते त्वं न भजस्व देवीम् । पते भज त्वं ब्राह्मणान्वैष्णवांश्च संसारदुःखात्तारन्सुष्ठुरूपान् ॥ ३,२८.
सेवादिकं प्रविहायैव स्वच्छं मायादेव्या भजनात्किं वदस्व । ज्येष्ठाष्टम्यां ज्येष्ठदेवीं ह्यलक्ष्मीं लक्ष्मीति बुद्ध्या पूजयित्वा च सम्यक् ॥ ३,२८.
तस्याः सूत्रं गलबद्धं च कृत्वा नानादुःखं ह्यनुभूयाः पते त्वम् । यदा पते यमदूतैश्च पाशैर्बद्ध्वा च सम्यक् ताड्यमानैः कशाभिः ॥ ३,२८.
तदा ह्यलक्ष्मीः कुत्र पलायतेऽसावतो मूलं विष्णुपादं भजस्व । पते भज त्वं सर्वदा वायुतत्त्वं न चाश्रयेस्त्वं सूक्ष्मस्कन्दं च मूढ ॥ ३,२८.
तद्वत्तं त्वं नवनीतं च भक्त्या तदुच्छिष्टं भक्षयित्वा पते हि । तस्याश्च सूत्रं गलबद्धं च कृत्वा इहैव दुःखान्यनुभूयाः पते त्वम् ॥ ३,२८.
यदा पते यमदूतैश्च पाशैर्बद्ध्वा च सम्यक् ताड्यमानः कशाभिः । तदा स्कन्दः कुत्र पलायतेऽसावतो मूलं विष्णुपादं भजस्व ॥ ३,२८.
दीपस्तंभं दापयित्वा पते त्वं सूत्रं च बद्ध्वा स्वगले च भक्त्या । तदा बद्ध्वा यमदूतैश्च पाशैर्दीपस्तंभैस्ताड्यमानस्तु सम्यक् ॥ ३,२८.
दीपस्तंभः कुत्र पलायितोभूदतो मूलं विष्णुपादं भजस्व । लक्ष्मीदिने पूजयित्वा च लक्ष्मीं सूत्रं तस्याः स्वगले धारय त्वम् ॥ ३,२८.