नेत्रस्वभावो दर्शने स्त्रीनराणां ह्यत्यादरान्नास्ति निद्रादिकं च । हरेर्भक्तानां दर्शने दुःखरूपो विष्णोः पूजादर्शने दुःखजालम् ॥ ३,२८.
तयोः स्वरूपं प्रविदित्वैव पूर्वं पुनः पुनः स्वीकरोत्येव मूढः । शिश्नं मौर्ख्याच्चैव कुत्रापि योनौ प्रवेशयेत्सर्वदा ह्यादरेण ॥ ३,२८.
भयं च लज्जा नैव चास्ते वधूनां तथा नृणां वनितानां यतीनाम् । स्वसारं ते ह्यविदित्वा दिनेपि सुवाम यज्ञेन स्वाभावश्च वीन्द्र ॥ ३,२८.
रसास्वभावो भक्षणे सर्वदापि ह्यनर्पितस्यान्नभक्ष्यस्य विष्णोः । तथोपहारस्य च तत्स्वभावः अभक्ष्याणां भक्षणे तत्स्वभावः ॥ ३,२८.
अलेह्यलेहस्य च तत्स्वभावः पातुं त्वपेयस्य च तत्स्वभावः । द्वयोः स्वरूपं च विहाय मूढः पुनः पुनः स्वीकरोत्येव नित्यम् ॥ ३,२८.
तस्य स्नानं व्यर्थमाहुश्च यस्मात्तस्मात्त्याज्यं न द्वयोः कार्यमेव । अभिप्रायं ह्येतमेवं खगेन्द्र जानीहि त्वं प्रहस्यैव नित्यम् ॥ ३,२८.
भार्याद्वयं ह्यविदित्वा स्वरूपं स्वीकृत्य चैकां प्रविहायैव चैकाम् । स्नानादिकं कुरुते मूढबूद्धिः व्यर्थं चाहुर्मोक्षभोगौ च नैव । एतत्सर्वं यदि मिथ्या भवेत्तु तदा त्वसौ मां दशतु ह्यहीन्द्रः ॥ ३,२८.
गरुड उवाच । भार्याद्वयं किं वद त्वं ममापि तयोः स्वरूपं किं वद त्वं मुरारे । तयोर्मध्ये ग्राह्यभार्यां वद त्वमग्राह्यभार्यां चापि सम्यग्वद त्वम् ॥ ३,२८.
श्रीकृष्ण उवाच । बुद्धिः पत्नी सा द्विरूपा खगेन्द्र दुष्टा चैका त्वपरा सुष्ठुरूपा । तयोर्मध्ये दुष्टरूपा कनिष्ठा ज्येष्ठा तु या सुष्ठुबुद्धिस्वरूपा ॥ ३,२८.
कनिष्ठया नष्टतां याति जीवः सुतिष्ठन्त्या याति योग्यां प्रतिष्ठाम् । कनिष्ठायाः शृणु वक्ष्ये स्वरूपं श्रुत्वा तस्यास्त्यागबुद्धिं कुरुष्व ॥ ३,२८.
जीवं यं वै प्रेरयन्ती कनिष्ठा काम्यं धर्मं कुरुते सर्वदापि । क्व ब्राह्मणाः क्व च विष्णुर्महात्मा क्व वै कथा क्व च यज्ञाः क्व गावः ॥ ३,२८.
क्व चाश्वत्थः क्व च स्नानं क्व शौचमेतत्सर्वं नाम नाशं करोति । मूढं पतिं रेणुकां पूजयस्व मायादेव्या दीपदानं कुरुष्व ॥ ३,२८.
सुभैरवादीन् भज मूढ त्वमन्ध हारिद्रचूर्णन्धारयेः सर्वदापि । ज्येष्ठाष्टम्यां ज्येष्ठदेवीं भजस्व भक्त्या सूत्रं गलबन्धं कुरुष्व ॥ ३,२८.
मरिगन्धाष्टम्यां मरिगन्धं भजस्व तथा सूत्रं स्वगले धारयस्व । दीपस्तंभं सुदिने पूजयस्व तत्सूत्रमेव स्वगले धारयस्व ॥ ३,२८.
महालक्ष्मीं चाद्यलक्ष्मीं च सम्यक्पूजां कुरु त्वं हि भक्त्याथ जीव । लक्ष्मीसूत्रं स्वागले धारयस्व महालक्ष्मीवान् भवसीत्युत्तरत्र ॥ ३,२८.
विहाय मौञ्जीदिवसे भाग्यकामः सुगुग्गुलान्धारयस्वातिभक्त्या । सुवासिनीः पूजयस्वाशु भक्त्या गन्धैः पुष्पैर्धूपदीपैः प्रतोष्य ॥ ३,२८.
वरार्तिक्यं कांस्यपात्रे निधाय कुर्वार्तिक्यं देवतादेवतानाम् । पिचुमन्दपत्राणि वितत्य भूमौ नमस्व त्वं क्षम्यतां चेति चोक्त्वा ॥ ३,२८.
महादेवीं पूजयस्वाद्य भक्त्या सद्वैष्णवानां मा ददस्वाप्यथान्नम् । सद्वैष्णवानां यदि वान्नं ददासि भाग्यं च ते पश्यतो नाशमेति ॥ ३,२८.
स्ववामहस्ते वेणुपात्रे निधाय दीपं धृत्वा सव्यहस्ते पते त्वम् । उत्तिष्ठ भोः पञ्चगृहेषु भिक्षां कुरुष्व सम्यक्प्रविहायैव लज्जाम् ॥ ३,२८.
आदौ गृहे षड्रसान्नं च कुत्वा जगद्गोप्यं भोजनं त्वं कुरुष्व । तच्छेषान्नं भोजयित्वा पते त्वं तासां च रे शरणं त्वं कुरुष्व ॥ ३,२८.
तासां हस्तं पुस्तके स्तापयित्वा त्राहीत्येवं तन्मुखैर्वाचयस्व । त्वं खड्गदेवं पूजयस्वाद्यभर्तस्तत्सेवकान्पूजयस्वाद्य सम्यक् ॥ ३,२८.
तैः सार्धं त्वं श्वानशब्दं कुरुष्व हरिद्राचूर्णं सर्वदा त्वं दधस्व । कुरुष्व त्वं भीमसेनस्य पूजां पञ्चामृतैः षोडशभिश्चोपचारैः ॥ ३,२८.
तत्कौपीनं रौप्यजं कारयित्वा समर्पयित्वा दीपमालां कुरुष्व । तद्दासवर्यान् भोजयस्वाद्य भक्त्या गर्जस्व त्वं भीमभीमेति सुष्ठु ॥ ३,२८.
तद्दासवर्यान्मोदयस्व स्ववस्त्रैर्मद्यैर्मांसद्रव्यजालेन नित्यम् । महादेवं पूजयस्वाद्य सम्यग्महारुद्रैरतिरुद्रैश्च सम्यक् ॥ ३,२८.
हरेत्युक्त्वा जङ्गमान्पूजयस्व शैवागमे निपुणाञ्छूद्रजातान् । शाकंभरीं विवशः सर्वशाकान्सुपाचयित्वा च गृहे गृहे च ॥ ३,२८.
ददस्व भक्त्या परमादरेण स्वलङ्कृत्य प्रास्तुवंस्तद्गुणांश्च । कुलादेवं पूजयस्वाद्य भक्त्या त्वं दृग्भ्यां वै तद्दिने शंभुबुद्ध्या ॥ ३,२८.
तद्भक्तवर्यान्पूजयस्वाद्य सम्यक्तत्पादमूले वन्दनं त्वं कुरुष्व । सुपञ्चम्यां मृन्मयीं शेषमूर्तिं पूजां कुरुष्व क्षीरलाजादिकैश्च ॥ ३,२८.
सुनागपाशं हि गले च बद्ध्वा तच्छेषान्नं भोजयेर्भोः पुनस्त्वम् । दिने चतुर्थे भोजयस्वाद्य भक्त्या नैवेद्यान्नं भोजयस्वाद्य सुष्ठु ॥ ३,२८.
इत्यादिकं प्रेरयित्वा पतिं सा जीवेन नष्टं प्रकरोत्येव नित्यम् । तस्याः संगाज्जीवरूपः पतिस्त्वां सम्यग्दष्टामिहलोके परत्र ॥ ३,२८.
तस्याः संगं सुविदूरं विसृज्य चेष्ट्वा समग्रं कुरु सर्वदा त्वम् । सुबुद्धिरूपा त्वीरयन्ती जगाद भजस्व विष्णुं परमादरेण ॥ ३,२८.