कृष्णावतारे द्रोणनामा बभूव अंभोजजावेशयुतो बृहस्पतिः । यस्माद्दोणात्संबभूव गुरुश्च तस्मादसौ द्रोणसंज्ञो बभूव ॥ ३,२८.
भूभारभूताद्युद्धृतौ ह्यङ्गभूतो विष्णोः सेवां कर्तुमेवास भूमौ । बृहस्पतिः पवनावेशयुक्ता स उद्धवश्चेत्यमिधानमाप ॥ ३,२८.
यस्मादुत्कृष्टो हरिरत्र सम्यगतो ह्यसौ बुधवन्नाम चाप । सखा ह्यभूत्कृष्णदेवस्य नित्यं महामतिः सर्वलोकेषु पूज्यः ॥ ३,२८.
दक्षिणाङ्गुष्ठजो दक्षो ब्रह्मपुत्रो महामतिः । कन्यां सृष्ट्वा हरेः प्रीणन्नास भूमा प्रजापतिः । पुत्रानुदपादयद्दक्षस्त्वतो दक्ष इति स्मृतः ॥ ३,२८.
शचीं भार्यां देवराजस्य विद्धि तस्या ह्यवतारं शृणु सम्यक् खगेन्द्र । रामावतारे नाम तारा बभूव सा वालिपत्नी शचीसंज्ञका च ॥ ३,२८.
रामान्मृते वालिसंज्ञे पतौ हि सुग्रीवसंगं सा चकाराथ तारा । अतो नागात्स्वर्गलोकं च तारा क्व वा यायादन्तरिक्षे च पापा ॥ ३,२८.
कृष्णावतारे सैव तारा च वीन्द्र बभूव भूमौ विजयस्य पत्नी । पिशङ्गदेति ह्यभिधा स्याच्च तस्याः सामीप्यमस्यास्त्वर्जुनेनैव चासीत् ॥ ३,२८.
उत्पादयित्वा बभ्रुवाहं च पुत्रं तस्यां त्यक्त्वा ह्यर्जुनो वै महात्मा । अतश्चोभे वारचित्राङ्गदे च शचीरूपे नात्र विवार्यमस्ति ॥ ३,२८.
पुलोमजा मन्त्रद्युम्नस्य भार्या या काशिका गाधिराजस्य भार्या । विकुक्षिभार्या सुमतिश्चेति संज्ञा कुशस्य पत्नी कान्तिमतीति संज्ञा ॥ ३,२८.
एता हि सप्त ह्यवराश्च शच्या जानीहि वै नास्ति विचारणात्र । शची रतिश्चानिरुद्धो मनुर्दक्षो बृहस्पतिः । षडन्योन्यसमाः प्रोक्ता अहङ्काराद्दशाधमाः ॥ ३,२८.
अथ यः प्रवहो वायुर्मुख्यवायोः सुतो बली । स वायुषु महानद्य स वै कोणाधिपस्तथा ॥ ३,२८.
नासिकासु स एवोक्तो भौतिकस्तुल्य एव च । अतिवाहः स एवोक्तः यतो गम्यो मुमुक्षुभिः ॥ ३,२८.
दक्षादिभ्यः पञ्चगुणादधमः संप्रकीर्तितः । गरुड उवाच । प्रवहश्चेति संज्ञां स किमर्थं प्राप तद्वद ॥ ३,२८.
अर्थः कश्चास्ति तन्नाम्नः प्रतीतस्तं वदस्व मे । गरुडेनैवमुक्तस्तु भगवान्देवकीसुतः । उवाच परमप्रीतः संस्तूय गरुडं हरिः ॥ ३,२८.
कृष्ण उवाच । प्रहर्षेण हरेस्तुल्यान्सर्वदा वहते यतः । अतः प्रवहनामासौ कीर्तितः पक्षिसत्तम ॥ ३,२८.
सर्वोत्तमो विष्णुरेवास्ति नाम्ना ब्रह्मादयस्तदधीनाः सदापि । मयोक्तमेतत्तु सत्यं न मिथ्या गृह्णामि हस्तेनोरगं कोपयुक्तम् ॥ ३,२८.
सर्वं नु सत्यं यदि मिथ्या भवेत्तु तदा त्वसौ मां दशतुह्यहीन्द्रः । एवं ब्रुवन्नुरगं कोपयुक्तं समग्रहीन्नादशत्सोप्युरङ्गः ॥ ३,२८.
एतस्य संधारणादेव वीन्द्र स वायुपुत्रः प्रवहेत्याप संज्ञाम् । यो वा लोके विष्णुमूर्तिं विहाय दैत्यस्वरूपा रेणुकाद्याः कुदेवाः ॥ ३,२८.
तेषां तथा मत्पितॄणां च पूजा व्यर्था सत्यं सत्यमेतद्ब्रवीमि । एतत्सर्वं यदि मिथ्या भवेत्तु तदा त्वसौ मां दशतु ह्यहीन्द्रः ॥ ३,२८.
पित्र्यं नयामि प्रविहायैव ये तु पित्रुद्देशात्केवलं यः करोति । स पापात्मा नरकान्वै प्रयातीत्येतद्वाक्यं सत्यमेतद्ब्रवीमि ॥ ३,२८.
न श्रीः स्वतन्त्रा नापि विधिः स्वतन्त्रो न वायुदेवो नापि शिवः स्वतन्त्रः । तदन्ये नो गौरिपुलोमजाद्याः किं वक्तव्यं नात्र लोके स्वतन्त्रः ॥ ३,२८.
ब्रवीमि सत्यं पुरुषो विष्णुरेव सत्यं सत्यं भुजमुद्धृत्य सत्यम् । एतत्सर्वं यदि मिथ्या भवेत्तु तदा त्वसौ मां दशतु ह्यहीन्द्र ॥ ३,२८.
जीवश्च सत्यः परमात्मा च सत्यस्तयोर्भेदः सत्ये एतत्सदापि । जडश्चसत्यो जीवजडयोश्च भेदो भेदः सत्यः किं च जडैशयोर्भिदा ॥ ३,२८.
भेदः सत्यः सर्वजीवेषु नित्यं सत्या जडानां च भेदा सदापि । एतत्सर्वं यदि मिथ्या भवेत्तु तदा त्वसौ दशतु मां ह्यहीन्द्रः ॥ ३,२८.
एवं ब्रुवन्नुरगं कोपयुक्तं समग्रहीन्नादशत्सोप्युरङ्गः । एतस्य संधारणादेववीद्रे सा वायुपुत्रः प्रवहेत्याप संज्ञाम् ॥ ३,२८.
द्वयं स्वरूपं प्रविदित्वैव पूर्वं त्वं स्वीकुरुष्व द्वयमेव नित्यम् । स्नानादिकं च प्रकरोति नित्यं पापी स आत्मा नैव मोक्षं प्रयाति ॥ ३,२८.
तस्माद्द्वयं प्रविचार्यैव नित्यं सुखी भवेन्नात्र विचार्यमस्ति । एतत्सर्वं यदि मिथ्या भवेत्तु तदा त्वसौ मां दशतु ह्यहीन्द्रः ॥ ३,२८.
गरुड उवाच । किं तद्द्वयं देवदेवेश किं वा तत्कारणं कीदृशं मे वदस्व । द्वयोस्त्यागं कीदृशं मे वदस्व त्यागात्सुखं कीदृशं मे वदस्व ॥ ३,२८.
श्रीकृष्ण उवाच । द्वयं चाहुस्त्विन्द्रिये द्वे बलिष्ठे देहे ह्यस्मिञ्श्रोत्रनेत्रे सुसृष्टे । अवान्तरे श्रोत्रनेत्रे खगेन्द्र द्वयं चाहुस्तत्स्वरूपं च वक्ष्ये ॥ ३,२८.
श्रोत्रस्वभावो लोक वार्ताश्रुतौ च ह्यतीव मोदस्त्वादरास्वादनेन । हरेर्वार्ताश्रवणे दुःखजालं श्रोत्रस्वभावो जडता दमश्च ॥ ३,२८.