वाल्मीकिऋषिणा यस्मात्कुशेनैव विनिर्मितः । अतः [https://vedastudy.yolasite.com/kusha1.php कुश] इति प्रोक्तो जानकीनन्दनः प्रभुः ॥ ३,२८.
इन्द्रद्युम्नः पुरेंद्रस्तु गाधी वाली तथार्जुनः । विकुक्षिः कुश एवैते सप्त चेन्द्राः प्रकीर्तिताः ॥ ३,२८.
यः कृष्णपुत्त्रः प्रद्युम्नः काम एव प्रकीर्तितः । प्रकृष्टप्रकाशरूपत्वात्प्रद्युम्न इति नामवान् ॥ ३,२८.
यो रामभ्राता भरतः काम एवाभवद्भुवि । रामाज्ञां भरते यस्मात्तस्माद्भरतनामकः ॥ ३,२८.
चक्राभिमानि कामस्तु सुदर्शन इति स्मृतः । ब्रह्मैव कृष्णपुत्रस्तु सांबो जाम्बवतीसुतः ॥ ३,२८.
कामावतारो विज्ञेयः संदेहो नात्र विद्यते । यो रुद्रपुत्रः स्कन्दस्तु काम एव प्रकीर्तितः ॥ ३,२८.
रिपूनास्कंदते नित्यमतः स्कन्द इति स्मृतः । यो वा सनत्कुमारस्तु ब्रह्मपुत्रः खगाधिप । कामावतारो विज्ञेयो नात्र कार्या विचारणा ॥ ३,२८.
सुदर्शनश्च परमः प्रद्युम्नः सांब एव च । सनत्कुमारः सांबश्च षडेते कामरूपकाः ॥ ३,२८.
ततश्च इन्द्रकामावप्युमादिभ्यो दशावरौ । तयोर्मध्ये तु गरुड काम इन्द्राधमः स्मृतः ॥ ३,२८.
प्राणस्त्वहङ्कार एव अहङ्कारकसंज्ञकः । गरुत्मदंशो विज्ञेयः कामेन्द्राभ्यां दशाधमः ॥ ३,२८.
तदनन्तरजान्वक्ष्ये शृणु वीन्द्र समाहितः । श्रवणान्मोक्षमाप्नोति महापापाद्विमुच्यते ॥ ३,२८.
कामपुत्रोनिरुद्धोऽपि हरेरन्यः प्रकीर्तितः । स एवाभूद्धरेः सेवां कर्तुं रामानुजो भुवि ॥ ३,२८.
शत्रुघ्न इति विख्यातः शत्रून्सूदयते यतः । अनिरुद्धः कृष्णपुत्रो प्रद्युम्नाद्योऽजनिष्ट ह ॥ ३,२८.
संकर्षणादिरूपैस्तु त्रिभिराविष्ट एव सः । एवं द्विरूपो विज्ञेयो ह्यनिरुद्धो महामतिः ॥ ३,२८.
कामभार्या रतिर्या तु द्विरूपा संप्रकीर्तिता । रुग्मपुत्री रुग्मवती कामभार्या प्रकीर्तिता ॥ ३,२८.
अतिप्रकाशयुक्तत्वात्तस्माद्रुग्मवती स्मृता । दुर्योधनस्य या पुत्री लक्षणा सा रतिः स्मृता ॥ ३,२८.
काष्ठा सांबस्य भार्या सा लक्षणं संयुनक्त्यतः । लक्षणाभिधया भूमौ दुष्ट वीर्योद्भवा ह्यपि ॥ ३,२८.
एवं द्विरूपा विज्ञेया कामभार्या रतिः स्मृता । स्वायंभुवो ब्रह्मपुत्रो मनुस्त्वाद्यो गुरौ समः । राजधर्मेण विष्णोश्च जातः प्रीणयितुं हरेः ॥ ३,२८.
बृहस्पतिर्देवगुरुर्महात्मा तस्यावतारास्त्रय आसन् खगेन्द्र । रामावतारे भरताख्यो बभूव ह्यंभोजजावेशयुतो बृहस्पतिः ॥ ३,२८.
देवावतारान्वानरांस्तारयित्वा श्रीरामदिव्याऽचरितान्यवादीत् । अतो ह्यसौ नारनामा बभूव ह्यङ्गत्वमाप्तुं रामदेवस्य भूम्याम् ॥ ३,२८.
कृष्णावतारे द्रोणनामा बभूव अंभोजजावेशयुतो बृहस्पतिः । यस्माद्दोणात्संबभूव गुरुश्च तस्मादसौ द्रोणसंज्ञो बभूव ॥ ३,२८.
भूभारभूताद्युद्धृतौ ह्यङ्गभूतो विष्णोः सेवां कर्तुमेवास भूमौ । बृहस्पतिः पवनावेशयुक्ता स उद्धवश्चेत्यमिधानमाप ॥ ३,२८.
यस्मादुत्कृष्टो हरिरत्र सम्यगतो ह्यसौ बुधवन्नाम चाप । सखा ह्यभूत्कृष्णदेवस्य नित्यं महामतिः सर्वलोकेषु पूज्यः ॥ ३,२८.
दक्षिणाङ्गुष्ठजो दक्षो ब्रह्मपुत्रो महामतिः । कन्यां सृष्ट्वा हरेः प्रीणन्नास भूमा प्रजापतिः । पुत्रानुदपादयद्दक्षस्त्वतो दक्ष इति स्मृतः ॥ ३,२८.
शचीं भार्यां देवराजस्य विद्धि तस्या ह्यवतारं शृणु सम्यक् खगेन्द्र । रामावतारे नाम तारा बभूव सा वालिपत्नी शचीसंज्ञका च ॥ ३,२८.
रामान्मृते वालिसंज्ञे पतौ हि सुग्रीवसंगं सा चकाराथ तारा । अतो नागात्स्वर्गलोकं च तारा क्व वा यायादन्तरिक्षे च पापा ॥ ३,२८.
कृष्णावतारे सैव तारा च वीन्द्र बभूव भूमौ विजयस्य पत्नी । पिशङ्गदेति ह्यभिधा स्याच्च तस्याः सामीप्यमस्यास्त्वर्जुनेनैव चासीत् ॥ ३,२८.
उत्पादयित्वा बभ्रुवाहं च पुत्रं तस्यां त्यक्त्वा ह्यर्जुनो वै महात्मा । अतश्चोभे वारचित्राङ्गदे च शचीरूपे नात्र विवार्यमस्ति ॥ ३,२८.
पुलोमजा मन्त्रद्युम्नस्य भार्या या काशिका गाधिराजस्य भार्या । विकुक्षिभार्या सुमतिश्चेति संज्ञा कुशस्य पत्नी कान्तिमतीति संज्ञा ॥ ३,२८.
एता हि सप्त ह्यवराश्च शच्या जानीहि वै नास्ति विचारणात्र । शची रतिश्चानिरुद्धो मनुर्दक्षो बृहस्पतिः । षडन्योन्यसमाः प्रोक्ता अहङ्काराद्दशाधमाः ॥ ३,२८.