यदाहीशो विपुलामुद्धरेच्च तदा रामः श्रीभिदासंगमे च । करोति तोषत्सर्वदा वै रमायास्तस्याप्यावेशो व्यंस्रितमोनसंगम् ॥ ३,२८.
या रेवती रैवतस्यैव पुत्री सा वारुणी बलभद्रस्य पत्नी । सौपर्णनाम्नी बलपत्नी खगेन्द्र यास्तास्तिस्रः षड्विष्णोश्च स्त्रीभ्यः । द्विगुणाधमा रुद्रशेषादिकेभ्यो दशाधमा त्वं विजानीहि पौत्र ॥ ३,२८.
गरुड उवाच । रामेण रन्तुं सर्वदा वारुणी तु पुत्रीत्वमापे रेवतस्यैव सुभ्रूः । एवं त्रिरूपा वारुणी शेषपत्नी द्विरूपभूता पार्वती रुद्रपत्नी ॥ ३,२८.
नीचाया जांबवत्याश्च शेषसाम्यं च कुत्रचित् । श्रूयते च मया कृष्ण निमित्तं ब्रूहि मे प्रभो ॥ ३,२८.
उमायाश्च तथा रुद्रः सदा बहुगुणाधिकः । एवं त्वयोक्तं भगवन्निश्चयार्थं मम प्रभो ॥ ३,२८.
रेवती श्रीयुता श्रीश्च शेषरूपा च वारुणी । सौपर्णि पार्वती चैव तिस्रः शेषाशंतो वराः ॥ ३,२८.
इत्यपि श्रूयते कृष्ण कुत्रचिन्मधुसूदन । निमित्तं ब्रूहि मे कृष्ण तव शिष्याय सुव्रत ॥ ३,२८.
श्रीकृष्ण उवाच । विज्ञाय जांबवत्याश्च तदन्येषां खगाधिप । उत्तमानां च साम्यं तु उत्तमावेशतो भवेत् ॥ ३,२८.
अवराणां गुणस्यापि ह्युत्तमानामधीनता । अस्तीति द्योतनायैव शतांशाधिकमुच्यते ॥ ३,२८.
यथा मयोच्यते वीन्द्र तथा जानीहि नान्यथा । तदनन्तरजान्वक्ष्ये शृणु काश्यपजोत्तम ॥ ३,२८.
चतुर्दशसु चेन्द्रेषु सप्तमो यः पुरन्दरः । वृत्रादीनां शरीरं तु पुरमित्युच्यते बुधैः ॥ ३,२८.
तं दारयति वज्रेण यस्मात्तस्मात्पुरन्दरः । चतुर्दशसु चेन्द्रेषु मन्त्रद्युम्नस्तु षष्ठकः ॥ ३,२८.
मन्त्रानष्ट महावीन्द्र देवो द्योतयते यतः । मन्त्रद्युम्नस्ततो लोके उभावप्येक एव तु ॥ ३,२८.
मन्त्रद्युम्नावतारोभूत्कुन्तीपुत्रोर्जुनो भुवि । विष्णोर्वायोरनन्तस्य चेन्द्रस्य खगसत्तम ॥ ३,२८.
पार्थश्चतुर्भिः संयुक्त इन्द्र एव प्रकीर्तितः । चतुर्थेपि च वायोश्च विशेषोस्ति सदार्जुन ॥ ३,२८.
वालिर्नामा वानरस्तु पुरन्दर इति स्मृतः । चन्द्रवंशे समुत्पन्नो गाधिराजो विचक्षणः ॥ ३,२८.
मन्त्रद्युम्नावतारः स विश्वामित्रपिता स्मृतः । वेदोक्तमन्त्रा गाः प्रोक्ता धिया संधारयेद्यतः ॥ ३,२८.
अतो गाधिरिति प्रोक्तस्तदर्थं भूतले ह्यभूत् । इक्ष्वाकुपुत्रो वीन्द्र विकुक्षिरिति विश्रुतः ॥ ३,२८.
स एवेन्द्रावतारोभूद्धरिसेवार्थमेव च । विशेषेण हरिं कुक्षौ विज्ञानाच्च हरिः सदा ॥ ३,२८.
अतो विकुक्षिनामासौ भूलोके विश्रुतः सदा । रामपुत्रः कुशः प्रोक्त इन्द्र एव प्रकीर्तितः ॥ ३,२८.
वाल्मीकिऋषिणा यस्मात्कुशेनैव विनिर्मितः । अतः [https://vedastudy.yolasite.com/kusha1.php कुश] इति प्रोक्तो जानकीनन्दनः प्रभुः ॥ ३,२८.
इन्द्रद्युम्नः पुरेंद्रस्तु गाधी वाली तथार्जुनः । विकुक्षिः कुश एवैते सप्त चेन्द्राः प्रकीर्तिताः ॥ ३,२८.
यः कृष्णपुत्त्रः प्रद्युम्नः काम एव प्रकीर्तितः । प्रकृष्टप्रकाशरूपत्वात्प्रद्युम्न इति नामवान् ॥ ३,२८.
यो रामभ्राता भरतः काम एवाभवद्भुवि । रामाज्ञां भरते यस्मात्तस्माद्भरतनामकः ॥ ३,२८.
चक्राभिमानि कामस्तु सुदर्शन इति स्मृतः । ब्रह्मैव कृष्णपुत्रस्तु सांबो जाम्बवतीसुतः ॥ ३,२८.
कामावतारो विज्ञेयः संदेहो नात्र विद्यते । यो रुद्रपुत्रः स्कन्दस्तु काम एव प्रकीर्तितः ॥ ३,२८.
रिपूनास्कंदते नित्यमतः स्कन्द इति स्मृतः । यो वा सनत्कुमारस्तु ब्रह्मपुत्रः खगाधिप । कामावतारो विज्ञेयो नात्र कार्या विचारणा ॥ ३,२८.
सुदर्शनश्च परमः प्रद्युम्नः सांब एव च । सनत्कुमारः सांबश्च षडेते कामरूपकाः ॥ ३,२८.
ततश्च इन्द्रकामावप्युमादिभ्यो दशावरौ । तयोर्मध्ये तु गरुड काम इन्द्राधमः स्मृतः ॥ ३,२८.
प्राणस्त्वहङ्कार एव अहङ्कारकसंज्ञकः । गरुत्मदंशो विज्ञेयः कामेन्द्राभ्यां दशाधमः ॥ ३,२८.