वेङ्कटेशस्य नैवेद्यं सदा लक्ष्मीः करोति वै । ब्रह्मा पूजयते नित्यमेवं शास्त्रस्य निर्णयः ॥ ३,२७.
नैवेद्यभक्षिणां पुंसामुपहासं न कारयेत् । स्वस्य प्राशस्त्यभावे तु नैवेद्यादि गुडादिकम् । ग्राह्यमेव न संदेहो अन्यथा नारकी भवेत् ॥ ३,२७.
श्रीनिवासात्परो देवो न भूतो न भविष्यति । स्वयं च पाचयित्वात्वं घृतपक्वादिकं तथा । श्रीनिवासस्य नैवेद्यं दत्त्वा भोजनमाचरेत् ॥ ३,२७.
इदं तु परमं गोप्यं तवोक्तं च खगेश्वर । न कस्यापि च वक्तव्यं गोप्यत्वात्खगसत्तम । इतः परं प्रवक्ष्यामि तारतम्यं शृणु प्रभो ॥ ३,२७.
श्रीगरुडमहापुराणम् २८ या पूर्वसर्गे दक्षपुत्री सती तु रुद्रस्य पत्नी दक्षयज्ञे स्वदेहम् । विसृज्य सा मेनकायां च जज्ञे धराधराद्धेमवतो वै सकाशात् ॥ ३,२८.
सा पार्वता रुद्रपत्नी खगेन्द्र या शेषपत्नी वारुणी नाम पूर्वा । सैवागता बलभद्रेण रन्तुं द्विरूपमास्थाय महापतिव्रता ॥ ३,२८.
श्रीरित्याख्या इन्दिरावेशयुक्ता तस्या द्वितीया प्रतिमा मेघरूपा । शेषण रूपेण यदा हि वीन्द्र तपश्चचार विष्णुना सार्धमेव ॥ ३,२८.
तदैव देवी वारुणी शेषपत्नी तपश्च क्रे इन्दिराप्रीतये च । तदा प्रीता इन्दिरा सुप्रसन्ना उवाच तां वारुणीं शेषपत्नीम् ॥ ३,२८.
यदा रामो वैष्णवांशेन युक्तः संपत्स्यते भूतले रौहिणेयः । मय्यावेशात्संयुता त्वं तु भद्रे श्रीरित्याख्या वलभद्रस्य रन्तुम् ॥ ३,२८.
संपत्स्यसे नात्र विचार्यमस्तीत्युक्त्वा सा वै प्रययौ विष्णुलोके । श्रीलक्ष्म्यंशाच्छ्रीरितीड्यां समाख्यां लब्ध्वा लोके शेषपत्नी बभूव ॥ ३,२८.
यदाहीशो विपुलामुद्धरेच्च तदा रामः श्रीभिदासंगमे च । करोति तोषत्सर्वदा वै रमायास्तस्याप्यावेशो व्यंस्रितमोनसंगम् ॥ ३,२८.
या रेवती रैवतस्यैव पुत्री सा वारुणी बलभद्रस्य पत्नी । सौपर्णनाम्नी बलपत्नी खगेन्द्र यास्तास्तिस्रः षड्विष्णोश्च स्त्रीभ्यः । द्विगुणाधमा रुद्रशेषादिकेभ्यो दशाधमा त्वं विजानीहि पौत्र ॥ ३,२८.
गरुड उवाच । रामेण रन्तुं सर्वदा वारुणी तु पुत्रीत्वमापे रेवतस्यैव सुभ्रूः । एवं त्रिरूपा वारुणी शेषपत्नी द्विरूपभूता पार्वती रुद्रपत्नी ॥ ३,२८.
नीचाया जांबवत्याश्च शेषसाम्यं च कुत्रचित् । श्रूयते च मया कृष्ण निमित्तं ब्रूहि मे प्रभो ॥ ३,२८.
उमायाश्च तथा रुद्रः सदा बहुगुणाधिकः । एवं त्वयोक्तं भगवन्निश्चयार्थं मम प्रभो ॥ ३,२८.
रेवती श्रीयुता श्रीश्च शेषरूपा च वारुणी । सौपर्णि पार्वती चैव तिस्रः शेषाशंतो वराः ॥ ३,२८.
इत्यपि श्रूयते कृष्ण कुत्रचिन्मधुसूदन । निमित्तं ब्रूहि मे कृष्ण तव शिष्याय सुव्रत ॥ ३,२८.
श्रीकृष्ण उवाच । विज्ञाय जांबवत्याश्च तदन्येषां खगाधिप । उत्तमानां च साम्यं तु उत्तमावेशतो भवेत् ॥ ३,२८.
अवराणां गुणस्यापि ह्युत्तमानामधीनता । अस्तीति द्योतनायैव शतांशाधिकमुच्यते ॥ ३,२८.
यथा मयोच्यते वीन्द्र तथा जानीहि नान्यथा । तदनन्तरजान्वक्ष्ये शृणु काश्यपजोत्तम ॥ ३,२८.
चतुर्दशसु चेन्द्रेषु सप्तमो यः पुरन्दरः । वृत्रादीनां शरीरं तु पुरमित्युच्यते बुधैः ॥ ३,२८.
तं दारयति वज्रेण यस्मात्तस्मात्पुरन्दरः । चतुर्दशसु चेन्द्रेषु मन्त्रद्युम्नस्तु षष्ठकः ॥ ३,२८.
मन्त्रानष्ट महावीन्द्र देवो द्योतयते यतः । मन्त्रद्युम्नस्ततो लोके उभावप्येक एव तु ॥ ३,२८.
मन्त्रद्युम्नावतारोभूत्कुन्तीपुत्रोर्जुनो भुवि । विष्णोर्वायोरनन्तस्य चेन्द्रस्य खगसत्तम ॥ ३,२८.
पार्थश्चतुर्भिः संयुक्त इन्द्र एव प्रकीर्तितः । चतुर्थेपि च वायोश्च विशेषोस्ति सदार्जुन ॥ ३,२८.
वालिर्नामा वानरस्तु पुरन्दर इति स्मृतः । चन्द्रवंशे समुत्पन्नो गाधिराजो विचक्षणः ॥ ३,२८.
मन्त्रद्युम्नावतारः स विश्वामित्रपिता स्मृतः । वेदोक्तमन्त्रा गाः प्रोक्ता धिया संधारयेद्यतः ॥ ३,२८.
अतो गाधिरिति प्रोक्तस्तदर्थं भूतले ह्यभूत् । इक्ष्वाकुपुत्रो वीन्द्र विकुक्षिरिति विश्रुतः ॥ ३,२८.
स एवेन्द्रावतारोभूद्धरिसेवार्थमेव च । विशेषेण हरिं कुक्षौ विज्ञानाच्च हरिः सदा ॥ ३,२८.
अतो विकुक्षिनामासौ भूलोके विश्रुतः सदा । रामपुत्रः कुशः प्रोक्त इन्द्र एव प्रकीर्तितः ॥ ३,२८.