कलावित्थं विशालाक्षि महिमा दृश्यते भुवि । अत्र स्नानं प्रकर्तव्यं दातव्यं दान मुत्तमम् । ततश्च ज्ञानमासाद्य विविष्णुलोकं स गच्छति ॥ ३,२७.
गुरुस्त्रीगमनाच्चन्द्र अहल्यायां गतो हरिः । सुरापानाच्च शुक्रस्तु सुवर्णहरणाद्बलिः ॥ ३,२७.
ब्रह्महत्यायाश्च रुद्रो नागो दत्तापहारकः । सूतस्य हननाद्रामो निर्मुक्तो ह्यत्र भामिनि ॥ ३,२७.
नानेन सदृशं तीर्थं न भूतं न भविष्यति । स्नानं कुरु महाभागे तेन सिद्धिं ह्यवाप्स्यसि ॥ ३,२७.
जैगीषव्येण मुनिना पित्रा सह च कन्यका । स्नानं चकार विधिवदुदतिष्ठच्च भामिनि ॥ ३,२७.
यावच्च पौरुषं सूक्तं तावत्कालं हि तिष्ठति । पश्चाज्जप्त्वा महामन्त्रं वेङ्कटेशाभिधं परम् ॥ ३,२७.
द्विजातीन्प्रीणयित्वा सा वस्त्रद्रव्यादिभूषणैः । तस्माच्च प्रययौ देवी कमारीतीर्थमुत्तमम् ॥ ३,२७.
कुमारीमहिमानं च श्रुत्वा स्नानं चकार सा । पुनरावृत्य सा देवी ह्यन्तरा विरजानदीम् ॥ ३,२७.
दृष्ट्वा पप्रच्छ सा देवी जैगीषव्यं गुरुं प्रभुम् । किं संज्ञिकेयं विप्रेन्द्र किं कार्यं ह्यत्र मे वद ॥ ३,२७.
जैगीषव्यः पृष्ट एव मुवाच करुणानिधिः । इयं भागीरथी कन्ये आयाति ह्यन्तरेण तु ॥ ३,२७.
अतः सा प्रोच्यते ह्यन्तर्गङ्गेति परमर्षिभिः । कन्ये त्वस्यास्तु सलिलं श्रीनिनिवासप्रियं सदा ॥ ३,२७.
अत्र स्नानं यः करोति स याति परमां गतिम् । स्नानं चकार सा कन्या जले परमपावने ॥ ३,२७.
दानादिकं तथा ज्ञात्वा जजाप परमं मनुम् । श्रीनिवाससमीपं तु पुनरागत्य भामिनी ॥ ३,२७.
अङ्गप्रदक्षिणं चक्रे भक्त्या वेङ्कटनायकम् । ब्राह्मणादीन्प्रीणयित्वा वस्त्रगन्धादिभूषणैः ॥ ३,२७.
पुनः परदिने प्रातः स्वामिपुष्करिणीजले । स्नानं कृत्वा महाभागा ययौ तुंबुरुसंज्ञिकाम् ॥ ३,२७.
पप्रच्छ तं गुरुं देवी नाथं किन्नामिका त्वयम् । जैगीषव्य उवाच । इयं तुंबरुकाभिज्ञा नारी वै वरवर्णिनी ॥ ३,२७.
पुरा तुं बुरुणा साकं नारदस्तपसि स्थितः । अत्र प्रादुरभूद्विष्णुर्नारदस्य हिताय च ॥ ३,२७.
स्नानं यः कुरुते ह्यत्र स याति परमां गतिम् । अत्र स्नानं मनुष्याणां सर्वेषां दुर्लभं कलौ ॥ ३,२७.
अत्र स्नानं मनुष्याणां नाल्पस्य तपसः फलम् । तत्र स्नात्वा च पीत्वा च दत्त्वा दानान्यकेशः ॥ ३,२७.
पुनरागत्य सा देवी श्रीनिवासं ननाम ह । तस्मिमन्दिने ब्राह्मणांश्च तर्पयामास भमिनि ॥ ३,२७.
स्वामिपुष्करिणीं प्राप्य दीपान्प्राज्वालयत्सती । सोपानेषु महाभागा दीपावलिभिरञ्जसा । प्रीणयामास देवेशं श्रीनिवासं जगद्गुरुम् ॥ ३,२७.
पुनः परदिने प्राप्ते शक्रतीर्थमनुत्तमम् । कपिलाख्योर्ध्वदेशे तु तत्तीर्थं पावनं स्मृतम् ॥ ३,२७.
तत्र स्नात्वा महाभागा तदूर्ध्वं स्नापयेत्स्वयम् । विष्वसेनसरस्तत्र सर्वपापविनाशनम् ॥ ३,२७.
तत ऊर्ध्वं महाभागा ययौ तत्र ददर्श सा । पञ्चायुधानां तीर्थानि तेषु स्नानं चकार सा ॥ ३,२७.
तदूर्ध्वं चाग्निकुण्डं स्याद्दुरारोहं ततोग्रतः । तस्योपरि ब्रह्मतीर्थं ब्रह्महत्याविमोचनम् ॥ ३,२७.
सप्तर्षीणां तदूर्ध्वं तु पुण्यतीर्थं च सत्फलम् । दशाधिकफलं तेषा तीर्थानामुत्तरोत्तरम् ॥ ३,२७.
एतेषां चैव माहात्म्यं को वा वक्तुमिहार्हति । ऋषितीर्थेषु सा कन्या चचार तप उत्तमम् ॥ ३,२७.
ममावतारपर्यन्तं चरित्वा तप उत्तमम् । योगधारण या देहं त्यक्त्वा जांबवतो गृहे ॥ ३,२७.
जाता जांबवती नाम ववृधे तस्य वेश्मनि । तस्याः पिता जांबवान्स समादात्कन्यकां तदा । रुक्म्या अनं तरा सैषा मम भार्या खगेश्वर ॥ ३,२७.
इदं हि परमाख्यानं वेङ्कटाद्रेर्महागिरेः । को वा वर्णयितुं शक्तो मदन्यः पुरुषो भुवि ॥ ३,२७.