मूर्तिं ददाति यो मर्त्यः स याति परमां गतिम् । औदुंबरफलाकारं प्रसन्नवदनं शुभम् ॥ ३,२६.
चक्रद्व्यसमायुक्तं शिरश्चक्रसमन्वितम् । सुवर्णबिन्दुसंयुक्तं वज्राङ्कुशसमान्वतम् ॥ ३,२६.
तन्मूर्तिदानं दुर्लभं तत्र देवः प्रीणाति यस्माच्छ्रीनिवासो महात्मा । यदा दानं दुर्घटं स्याच्च देवि तदा श्रोतव्यं लक्षणं तस्य मूर्तेः ॥ ३,२६.
पाशिनैरृतयोर्मध्ये शेषतीर्थं परं स्मृतम् । तत्र स्नात्वा शेषमूर्तिं प्रददाति द्विजातये ॥ ३,२६.
स याति परमं लोकं पुनरावृत्तिवर्जितम् । औदुंबरफलाकारं कुण्डलाकृतिमेव च ॥ ३,२६.
शेषवद्वदनं तस्य तस्मिंश्चक्रद्वयं स्मृतम् । फलं तमेकचक्रेण संयुतं वल्मिकान्वितम् ॥ ३,२६.
किञ्चिद्वर्णसमायुक्तं शेषमूर्ति मतिस्फुटम् । सुप्ता प्रबुद्धा द्विविधा शेषमूर्तिरुदाहृता ॥ ३,२६.
फणोन्नता प्रबुद्धा स्यात्सप्तलक्षफणान्विता । तत्रापि दुर्लभा सुप्ता महाभाग्यकरीस्मृता ॥ ३,२६.
इह लोके परत्रापि मोक्षदा नात्र संशयः । नवचक्रादुपक्रम्य विंशत्यन्तं च यत्र सः ॥ ३,२६.
अनन्त इति विज्ञेयो ह्यनन्तफलदायकः । विश्वंभरः स विज्ञेयो विंशत्यूर्ध्वं वरानने ॥ ३,२६.
तत्रापि केसरैश्चैक्रर्लक्षणैश्च समन्वितम् । कलौ तु दुर्लभं नणां तद्दानं चातिदुर्लभम् ॥ ३,२६.
स्नानं कृत्वा शेषतीर्थे विशुद्धेनैव चेतसा । एतेषां लक्षणं श्रुत्वा प्रयाति परमां गतिम् ॥ ३,२६.
ततः परं महाभागे वारुणं तीर्थमुत्तमम् । तत्रास्ते वरुणो देवः पूजां कर्तुं हरेः सदा ॥ ३,२६.
तत्र स्नानं प्रकर्तव्यं दातव्यं दानमुत्तमम् । शिशुमारं च मत्स्यं च त्रिविक्रममथापि वा । दातव्यं भूतिकामेन तीर्थेस्मिन्विरवर्णिनि ॥ ३,२६.
जंबूफलसमाकारा पुच्छे सूक्ष्मा सबिन्दुका । चक्रत्रया च वदने पुच्छोपरि सचक्रका ॥ ३,२६.
श्रीवत्सबिन्दुमालाढ्या मत्स्यमूर्तिरुदाहृता । पुच्छादधश्चक्रयुतं शिशुमारमुदाहृतम् ॥ ३,२६.
वक्रचक्रयुतश्चेत्स्यात्त्रिविक्रम उदाहृतः । एतेषां लक्षणं श्रुत्वा वारुणे तीर्थ उत्तमे ॥ ३,२६.
एतद्दानफलं प्राप्य मोदते विष्णुमन्दिरे । पूर्वौक्ता मूर्तयो यस्मिन् गृहे तिष्ठन्ति भामिनि । भागीरथी तीर्थवरा संनिधत्ते न संशयः ॥ ३,२६.
स्वामि पुष्करिणीस्नानं दुर्घटं तु कलौ नृणाम् । तत्र स्थितानां तीर्थानां स्नानं चाप्यतिदुर्घटम् ॥ ३,२६.
शालग्रामशिलादानं दुर्घटं च तथा स्मृताम् । स्वामिपुष्करिणीतीरे कन्यादानं सुदुर्घटम् ॥ ३,२६.
दुर्घटं कपिलादानं भक्ष्यदानं सुदुर्घटम् । स्वामिपुष्करिणीतीर्थे तीर्थेष्वन्येषु भामिनि ॥ ३,२६.
स्नानं कुरु यथान्या यं शय्यादानं तथा कुरु । जैगीषव्येन मुनिना त्वेवमुक्ता च कन्यका ॥ ३,२६.
स्वामिपुष्करिणीस्नानं सा चकार धृतव्रता । तीर्थेष्वेतेषु सुस्नाता दानं चक्रे सुभामिनी ॥ ३,२६.
उवास तत्र सा दवी त्रिः सप्तकन्दिनानि च । स्वामिपुष्करणीतीरमहिमानं शृणोति यः । स याति परमां भक्तिं श्रीनिवासे जगन्मये ॥ ३,२६.
श्रीगरुडमहापुराणम् २७ श्रीकृष्ण उवाच । सा गता स्नातुकामाथ नन्दां पापनिवारिणीम् । पप्रच्छ तं गुरुं विप्रं विनयावनता सुधीः ॥ ३,२७.
किन्नामेयं नदी विप्र किं कार्यं चात्र मे वद । जैगीषव्यस्त्वेवमुक्तो वाक्यमेतदुवाच ह ॥ ३,२७.
जैगीषव्य उवाच । शृणु भद्रे प्रवक्ष्यामि माहात्म्यं पापनाशनम् । इयं नदी महाभागे सदा पापविनाशिनी ॥ ३,२७.
ब्रह्महत्यादिपापौघो यत्र स्नानेन नश्यति । प्रत्यक्षं दृश्यते ह्यत्र स्नानं कर्तुं समुद्यतैः ॥ ३,२७.
जलं चाशुभ्ररूपेण पापैश्च परिदृश्यते । यावच्छुभ्रोदकं देवि तावत्सनानं च कारयेत् ॥ ३,२७.
यावच्छुभ्रोदकं नैव तावत्पापं न नश्यति । शुद्धोदके समायाते पापं नष्टमिति ध्रुवम् ॥ ३,२७.