तस्मिंस्तीर्थे तु यो देवि सीतारामशिलाभिधाम् । ददाति भूतले भद्रे भूपतेः सदृशो भवेत् ॥ ३,२६.
सीतारामशिला देवि द्विविधा संप्रकीर्तिता । पञ्चचक्रयुता काचित्षट्रचक्रेण च संयुता ॥ ३,२६.
तत्रापि षट्रचक्रयुता ह्युत्तमा संप्रकीर्तिता । पञ्चचक्रयुतायाश्च फलं द्विगुणमीरितम् ॥ ३,२६.
कुक्कुटाण्डप्रमाणं च सुसिग्धं नीलवर्णकम् । वदनत्रयसंयुक्तं सट्चक्रैः केसरैर्युतम् ॥ ३,२६.
स्वर्णरेखासमायुक्तं ध्वजवज्राङ्कुशैर्युतम् । एतादृशं तु वै भद्रे सीतारामाभिधं स्मृतम् ॥ ३,२६.
वदनेवन्दने देवि सीतारामस्य कोशकम् । दुर्लभं तु कलौ नॄणां स्वसाम्राज्यप्रदं शुभम् ॥ ३,२६.
इन्द्रतीर्थे महादेवि सीताराम भिधाशिला । या तद्दानं दुर्लभं तन्नाल्पस्य तपसः फलम् ॥ ३,२६.
दानस्य शक्त्यभावे तु श्रोतव्यं लक्षणं हरेः । शालग्राम शिलादानाद्यत्फलं तत्फलं लभेत् ॥ ३,२६.
आग्नेयकोणे श्रीनिवासस्य देवि तीर्थं त्वास्ते वह्निसंज्ञं सुशस्तम् । स वह्निदेवः श्रीनिवासस्य पूजां कर्तुं ह्यास्ते सर्वदा तीर्थमध्ये ॥ ३,२६.
यो वा तीर्थे वह्निसंज्ञे च देवि भक्त्या स्नानं कुरुतेऽजं स्मरन्हि । ज्ञानद्वारा मोक्षमाप्नोति देवि तत्र स्नानं दुर्ल्लभं वै नृणां च ॥ ३,२६.
ज्ञात्वा स्नानं दुष्करं तीर्थराजे भक्तिस्तस्मिन्दुर्ल्लभा चैव देवि । शालग्रामे तच्छिलायाश्च दानं सुदुर्लभं वासुदेवाभिधायाः ॥ ३,२६.
ह्रस्वं तथा वर्तुलं नीलवर्णं सूक्ष्मं मुखं मुखचक्रं सुशुद्धम् । सुवेणुयुक्तं वासुदेवाभिधेयं दानं कलौ दुर्लभं तस्य भद्रे ॥ ३,२६.
दाने तस्याः शक्त्य भावे च देवि स्नात्वा तीर्थे वासुदेवाभिधस्य । सम्यक्श्राव्यं लक्षणं वै शिलायास्तयोस्तुल्यं फलमाहुर्महान्तः ॥ ३,२६.
दक्षिणे श्रीनिवासस्य यमतीर्थं च संस्मृतम् । तत्रास्ते यमराजस्तु पूजां कर्तुं हरेः सदा ॥ ३,२६.
तत्र स्नानं च दानं चाप्यक्षयं परमं स्मृतम् । शालग्रामशिलादानं कार्यं तत्र महामुने ॥ ३,२६.
पट्टाभिरामसंज्ञायाः शिलाया दानमिष्यते । तच्चूतफलवत्स्थूलं वदनत्रयसंयुतम् ॥ ३,२६.
शिरश्चक्रेण रहितं सप्तचक्रैः समन्वितम् । नीलवर्णं स्वर्णरेखं गोशुराद्यैः समन्वितम् ॥ ३,२६.
पट्टवर्धनरामं तु दुर्लभं बहुभाग्यदम् । पट्टवर्धनरामं तु यो ददाति च तत्र वै । पट्टाभिषिक्तो भवति नात्र कार्या विचारणा ॥ ३,२६.
श्रीनिवासस्य नैरृत्ये नैरृतं तीर्थमुत्तमम् । आस्ते हि निरृतिस्तत्र पूजां कुर्तुं च सर्वदा ॥ ३,२६.
तत्र स्नानं प्रकर्तव्यं पुनर्जन्म न विद्यते । शालग्रामशिलायाश्चः पुरुषोत्तमसंज्ञिकाम् ॥ ३,२६.
मूर्तिं ददाति यो मर्त्यः स याति परमां गतिम् । औदुंबरफलाकारं प्रसन्नवदनं शुभम् ॥ ३,२६.
चक्रद्व्यसमायुक्तं शिरश्चक्रसमन्वितम् । सुवर्णबिन्दुसंयुक्तं वज्राङ्कुशसमान्वतम् ॥ ३,२६.
तन्मूर्तिदानं दुर्लभं तत्र देवः प्रीणाति यस्माच्छ्रीनिवासो महात्मा । यदा दानं दुर्घटं स्याच्च देवि तदा श्रोतव्यं लक्षणं तस्य मूर्तेः ॥ ३,२६.
पाशिनैरृतयोर्मध्ये शेषतीर्थं परं स्मृतम् । तत्र स्नात्वा शेषमूर्तिं प्रददाति द्विजातये ॥ ३,२६.
स याति परमं लोकं पुनरावृत्तिवर्जितम् । औदुंबरफलाकारं कुण्डलाकृतिमेव च ॥ ३,२६.
शेषवद्वदनं तस्य तस्मिंश्चक्रद्वयं स्मृतम् । फलं तमेकचक्रेण संयुतं वल्मिकान्वितम् ॥ ३,२६.
किञ्चिद्वर्णसमायुक्तं शेषमूर्ति मतिस्फुटम् । सुप्ता प्रबुद्धा द्विविधा शेषमूर्तिरुदाहृता ॥ ३,२६.
फणोन्नता प्रबुद्धा स्यात्सप्तलक्षफणान्विता । तत्रापि दुर्लभा सुप्ता महाभाग्यकरीस्मृता ॥ ३,२६.
इह लोके परत्रापि मोक्षदा नात्र संशयः । नवचक्रादुपक्रम्य विंशत्यन्तं च यत्र सः ॥ ३,२६.
अनन्त इति विज्ञेयो ह्यनन्तफलदायकः । विश्वंभरः स विज्ञेयो विंशत्यूर्ध्वं वरानने ॥ ३,२६.